This page has not been fully proofread.

७२ [निष्का]
 
* सर्वलक्षणसङ्ग्रहः *
 
निरोधः- गत्यादि प्रतिरोधः ३१ इन्द्रियाणां विषयेभ्यो निग्रहणं
निर्गुणत्वं गुणातीतत्वम् १ विद्यादिहीनत्वम् ॐ २ स्वसमानस-
ताकधर्मवद्यद्यत्तद्भिन्नत्वे सति तुच्छभिन्नत्वम् ॥ १५८८ ॥
निर्णय:- अनुभूतार्थकथनम् १ संदेहनिराकरणफलकं ज्ञानम् २
विरोधपरिहारकोऽधिकरणाङ्गविशेषः ३ सिद्धान्तसिद्धविचा-
र्यवाक्यतात्पर्यावधारणमिति ० ॥ १५९१ ॥
निर्देशः - शब्दप्रयोगः*अव्यवधानपूर्वककथनम् २ विस्तारपूर्वक ०
निर्वाह कं- उत्पत्त्यनुकूलम् १ तदन्यत्वे सति तन्निर्वाहक निर्वाह्यं
निर्विकल्पकं वस्तुस्वरूपमात्रग्रहणम् १ संसर्गानवगाहिज्ञानम्,
यथा सोऽयं देवदत्तः २ विशेषणविशेष्यसंबन्धानवगाहिज्ञानम्
निर्विकल्पसमाधिः-ज्ञातृज्ञानज्ञेयविकल्पानवभासपुरःसरमा-
त्मनि चित्तसमाधानम् ।
 
[शकयत्नः
 
निवृत्तिः- प्रवृ (त्तिप्रागभावरूपमौदासोन्यम् १ ) युपाधिविना-
निश्चयः - संशयविरोधिज्ञानम्१ तदभावाप्रकारकत्वे सति तत्प्रका-
निषिद्धकर्म-प्रत्यवायजनकं कर्म, यथा गोहत्यादि । [रकज्ञानं
निषेधवाक्यं पुरुषनिवर्तकवाक्यम् १ अनिष्टसाधनताबोधकवा ०
निष्कर्ष:- सारांश: १ इयत्तापरिच्छेदो वा २ निष्कृष्टः ॥ १६१० ॥
निष्कामत्वं-भोगेच्छाशून्यत्वम् १ विषयकामनासामान्याभाववत्त्वं
निष्काम कर्म-कामनारहितं कर्म १ कर्तृत्वाभिमान फलेच्छाऽभा-
ववत्त्वे सत्यन्तर्यामीश्वरचरणैकसमर्पितत्वं निष्कामकर्मत्वम् ।
 
..
 
-