This page has been fully proofread once and needs a second look.

<bold>* सर्वलक्षणसङ्ग्रहः *
 
[धृति] ६७
 
हरा ध
 
</bold>
<bold>
धनुर्वेदः -</bold> धनुर्विद्याबोधकश। शास्त्रम् १ धनुःप्रयोगसंहारज्ञापको वेदः

<bold>
धर्म:-</bold> अन्याश्रितत्वे सत्यस्वतन्त्रः *१ कल्याणकारिकर्म २ विहि-

तकर्मजन्य इति ग्रं० २ वेदप्रतिपाद्यः प्रयोजनवदर्थः । प्रयोजनेऽ

तिव्याप्तिवारणाय प्रयोजनवदिति, भोजनादावतिव्याप्तिवार-

णाय वेदप्रतिपाद्य इति, श्येनादावतिव्याप्तिवारणायार्थ इति ४

कार्यनियोगापूर्वपर्यायकैः शब्दैरुच्यमानो धात्वर्थसाध्यस्वर्गा-

दिफलसाधनपुरुषगु इति प्राभाकरा: ५ यागजन्यस्वर्गजनक-

वृत्तिगुणत्वव्याप्यजातिमानिति तार्किका: ६ क्रियासाध्यत्त्रेवे सति

श्रेयस्कर इति लौकिकाः ७ धरति लोकान् *प्ध्रियतेनेनेति ९

सत्याज्जायते, दयया दानेन च वर्धते, क्षमायां तिष्ठति, क्रोधान्नश्यति

<bold>
धर्मशास्त्रं -</bold> वेदार्थ ([नुभवजन्यं शास्त्रम् १) स्मरणपूर्वकरचितं शास्त्रं

<bold>
धर्मी-</bold> धर्माश्रयः १ प्रतियोगिभिन्नत्वे सति भेदनिरूपकत्वं धर्मित्वं

<bold>
धातुत्वं-</bold> क्रियावाचित्वे क्रियानिरूपितशक्तिविशिष्टत्वे वा सति

<bold>
धात्वर्थः-</bold> फलानुकूलव्यापारः ।
[गणपठितत्वं
 

<bold>
धारणा-</bold> न्यायपथस्थितिः १ सारासारावधारणपूर्वकं प्रत्युक्तिसमये

स्मरणयोग्यतापादनम् २मूलाधारस्वाधिष्ठानमणिपूरकानाहत-

विशुद्धाज्ञाचक्रदेशानामग्मःयतरस्मिन्प्रत्यगात्मनि वा चित्तस्थापनं

<bold>
धारावाहिकज्ञानं-</bold>घटोघट इत्याकारकः सततप्रत्ययः <error>१४९२
</error><fix>॥१४९२॥</fix>
<bold>
धृतिः -</bold> अवसन्नानां देहेन्द्रियाणामवष्टम्भहेतुः प्रयत्नः॥१४९३॥
 
A
 
-