This page has been fully proofread once and needs a second look.

<bold>दैनन्दिनप्रलयः-</bold> ब्रह्मणः सुषुप्तिः * १ समष्टिलिङ्गशरीरलयः ।.
<bold>दोषः - </bold>तावदन्यतमः * १ भ्रमोत्पादकः २ कार्यविरोधित्वं दोषत्वं
<bold>द्योतकः-</bold> कियाविशेषाक्षेपकः * १ तात्पर्यग्राहकः २ संबन्धप-
रिच्छेदक इति ग्रं० ३ स्त्रसमभिव्याहृतपदनिष्ठशक्तिव्यञ्जकः ।
<bold>द्रवत्वम् -</bold> आद्यस्यन्दनासमवायिकारणम् ॥ १४४८ ॥
<bold>द्रव्यत्वं -</bold> लिङ्गसङ्ख्याकारका न्वितत्वमिति वै० १ गुणक्रियाश्रय-
त्वमिति मी० २ साक्षाः संबन्धेनेद्रियग्राह्यत्वम् ३ संयोगव-
द्वृत्तिसत्तावान्तरजातियोगित्वमिति लक्षणमालायाम् ४ गग.
नारविन्दसमवेतत्वे सति नित्यगन्धासमवेतत्वम् ॥ १४५४ ॥
<bold>द्रोहः -</bold> अहितेच्छा १ अनिष्टचिन्तनं वा २ परेषु स्वच्छन्दवृत्तिवि-
रोधः * ३ दुःखजनक क्रियारूपापकारजनकश्चित्तवृत्तिविशेषः ।
<bold>द्वन्द्वसमासः-</bold>सर्वपदार्थप्रधानः १ परस्परानन्वित ( र्थकानेकप-
दघटितत्वम् २) समस्यमाननिखिलपदार्थबोधकसमासः<error> १४६२</error><fix>॥१४३२॥</fix>
<bold>द्वारं-</bold> गृहनिर्गमस्थानम् १ 'व्यापार'लक्षणमप्यत्र पठनीयम् <error>१४६३</error><fix>॥१४६३॥</fix>
<bold>द्वितीयात्वं-</bold> तिबन्तपचधातूपस्थाप्यपाकथर्मिककर्मत्वानुभवा-
नुकूल सुप्स जातीयत्वम् ॥ १४६४ ॥

<bold>द्वेषः-</bold> वृथा निन्दा १ परानिष्टाभिलाषः २ द्विष्टसाधनताज्ञानज-
<bold>द्वैतवादः -</bold> जीवेश्वरादिभेद निर्णायकः कथाविशेषः । [न्यगुणः
<bold>द्वैताद्वैतम् -</bold> कार्यात्मना द्वैतं कारणात्मनाऽद्वैतम् ॥ १४६९ ॥
<bold>द्व्यणुकम्-</bold> परमाणुद्वयारब्धकार्यद्रव्यम् ॥ १४७० ॥