This page has not been fully proofread.

६६ [ब्यणु]
 
* सर्वलक्षणसङ्ग्रहः #
 
P
 
दैनन्दिनप्रलयः- ब्रह्मणः सुषुप्तिः * १ समष्टिलिङ्गशरीरलयः ।.
दोषः - तावदन्यतमः * १ भ्रमोत्पादकः २ कार्यविरोधित्वं दोषत्वं
द्योतकः कियाविशेषाक्षेपकः * १ तात्पर्यग्राहकः २ संबन्धप-
रिच्छेदक इति ग्रं० ३ स्त्रसमभिव्याहृतपदनिष्ठशक्तिव्यञ्जकः ।
द्रवत्वम् - आद्यस्यन्दनासमवायिकारणम् ॥ १४४८ ॥
द्रव्यत्वं - लिङ्गसङ्ख्याकारका न्वितत्वमिति वै० १ गुणक्रियाश्रय-
त्वमिति मी० २ साक्षाः संबन्धेनेद्रियग्राह्यत्वम् ३ संयोगव-
द्वृत्तिसत्तावान्तरजातियोगित्वमिति लक्षणमालायाम् ४ गग.
नारविन्दसमवेतत्वे सति नित्यगन्धासमवेतत्वम् ॥ १४५४ ॥
द्रोहः - अहितेच्छा १ अनिष्टचिन्तनं वा २ परेषु स्वच्छन्दवृत्तिवि-
रोधः * ३ दुःखजनक क्रियारूपापकारजनकश्चित्तवृत्तिविशेषः ।
द्वन्द्वसमासः-
सर्वपदार्थप्रधानः १ परस्परानन्वित ( र्थकानेकप-
दघटितत्वम् २) समस्यमाननिखिलपदार्थबोधकसमासः १४६२
द्वारं गृहनिर्गमस्थानम् १ 'व्यापार'लक्षणमप्यत्र पठनीयम् १४६३
द्वितीयात्वं-तिबन्तपचधातूपस्थाप्यपाकथर्मिककर्मत्वानुभवा-
नुकूल सुप्स जातीयत्वम् ॥ १४६४ ॥
 
द्वेषः वृथा निन्दा १ परानिष्टाभिलाषः २ द्विष्टसाधनताज्ञानज-
द्वैतवादः - जीवेश्वरादिभेद निर्णायकः कथाविशेषः । [न्यगुणः
द्वैताद्वैतम् - कार्यात्मना द्वैतं कारणात्मनाऽद्वैतम् ॥ १४६९ ॥
व्यणुकम्- परमाणुद्वयारब्धकार्यद्रव्यम् ॥ १४७० ॥
 
-
 
-