This page has been fully proofread once and needs a second look.

<bold>दृष्टिसृष्टिः-</bold>दृष्टिसमव्(<error>नकालीनसृष्टि: १ </error>) समया विश्वसृष्टि: २
दृष्टिरेव विश्वसृष्टिः ३ त्रिविधसत्ताबहिर्भूतत्वे सत्यसद्विलक्षणत्वम्
<bold>देवतात्वम्-</bold> मन्त्रकरणकहविस्त्यागभागित्वेनोद्देश्यत्वम् <error>१४२३</error><fix>॥१४२३॥</fix>
<bold>देवताधिकरणन्यायः- </bold>देवतानां यज्ञादावधिकारित्वतद्भाव-
योरन्यतरसाधको न्यायः १ देवतानां विग्रहवत्त्वतदभावयोरन्य०
<bold>देवयानम्-</bold>सुराणां (यानम् १ ) गतिसाधनविमानम् ॥ १४२६॥
<bold>देवयानमार्गः-</bold> देवः परेशो यायतेऽनेन मार्गेण १अर्चिराद्यभि-
मानिदेवाधिष्ठितो मार्ग: २ नागवीथ्युत्तरे यच्च सप्तर्षिभ्यश्च
दक्षिणम्, उत्तरः सवितुः पन्था देवयानस्तु स स्मृतः ।
<bold>देशान्तरं -</bold> अन्यो देश: १महानद्यन्तरं यत्र गिरिर्वा व्यवधा-
<error>यक</error> चो यत्र</error> विभिद्यन्ते तद्देशान्तरमुच्यते ॥ १४३१ ॥
<bold>देशपरिच्छेदः -</bold> यत्किश्चिद्देशावृत्तित्वम् १ स्वाधिकरणदेश-
वृत्त्यत्यन्ताभावप्रतियोगित्वमिति ग्रं० ॥ १४३३ ॥
<bold>देहः -</bold> इन्द्रियाश्रयः * १ प्रतिक्षणमुपचीयमानावयवः ॥१४३५॥
<bold>देहवासना-</bold>सदन्नपानादिसेवनबलवीर्यादिसंपादनालङ्करणादि-
भिर्देहसौष्ठवसंपादनाभिनिवेशहेतुः १ देहानुभवजनितत्वे सति
देहस्यैव पुनः पुनः(पुष्ट्याद्यर्थम् ) स्मरणहेतुरित्यादर्शे २ संपा-
दयितुमशक्यत्वात्क्लेशबहुत्वादप्रामाणिकत्वात्पुरुषार्थानुपयोगि-
त्वात्पुनर्जन्महेतुत्वादिति निरन्तराञ्चन्तनं देहवासनानिवृत्त्युपाय:
<bold>देहाध्यासः-</bold> देहस्य तद्धर्मस्य वात्मतया तद्धर्मतया वाध्यासः ।