This page has not been fully proofread.

* सवेलक्षणसङ्ग्रहः
 
*
 
[देहा] ६५
 
दृष्टिसृष्टिः-दृष्टिसम
 
(निकालीनसृष्टि: १ ) समया विश्वसृष्टि: २
 
दृष्टिरेव विश्वसृष्टिः ३ त्रिविधसत्ताबहिर्भूतत्वे सत्यसद्विलक्षणत्वम्
देवतात्वम्-मन्त्रकरणकह विस्त्यागभागित्वेनोद्देश्यत्वम् १४२३
देवताधिकरणन्यायः देवतानां यज्ञादावधिकारित्वतद्भाव-
योरन्यतरसाधको न्यायः १ देवतानां विग्रहवत्त्वतदभावयोरन्य०
देवयानम्-सुराणां (यानम् १ ) गतिसाधनविमानम् ॥ १४२६॥
दघयान मार्गः-देवः परेशो यायतेऽनेन मार्गेण १
 

 
अचिराद्यभि
 
WA
 

 
माःनेदेवाधिष्ठितो मार्ग: २ नागवीथ्युत्तरे यच्च सप्तर्षिभ्यश्च
दक्षिणम्, उत्तरः सवितुः पन्था देवयानस्तु स स्मृतः ।
देशान्तरं - अग्यो देश: १ नन्तरं यत्र गिरिर्वा व्यवधा-
यचो यत्र विभिन्ते तद्देशान्तरमुच्यते ॥ १४३१ ॥
देशपरिच्छेदः - यत्किश्चिद्देशावृत्तित्वम् १ स्वाधिकरणदेश-
वृत्त्यत्यन्ताभावप्रतियोगित्वमिति मं० ॥ १४३३ ॥
देहः - इन्द्रियाश्रयः * १ प्रतिक्षणमुपचीयमानावयवः ॥१४३५॥
देहवासना-सदन्नपानादि सेवन बलवीर्यादिसंपादनालङ्करणादि-
भिर्देहसौष्ठवसंपादनाभिनिवेशहेतुः १ देहानुभवजनितत्वे सति
देहस्यैव पुनः पुनः(पुष्ट्याद्यर्थम् ) स्मरणहेतुरित्यादर्श २ संपा-
दयितुम शक्यत्वात्क्लेशबहुत्वादप्रामाणिकत्वात्पुरुषार्थानुपयोगि
त्वातुनर्जन्म हेतुत्वादिति निरन्तराञ्चन्तनं देहवास नानिवृत्युपाय:
देहाध्यासः- देहस्य तद्धर्मस्य वात्मतया तद्धर्मतया वाध्यासः ।