This page has been fully proofread once and needs a second look.

६४ (घंटे
 
* सर्वलक्षणसङ्ग्रहः *
 
<bold>दुराचारिणी-</bold> अपचरित्रा १ परभर्तृगामिनीति ग्रं० ॥१३९५॥

<bold>
दूषकः -</bold> दोषोत्पादकः १ सदोषत्वसम्पादको वा ॥ १३९७ ॥

<bold>
दूषणं-</bold>दोषजनकम् १ बाधकप्रमाणोपन्यासरूपधुथुक्तिभिः खण्डनं

<bold>
दूषितत्वम्-</bold>प्राप्तदोषत्वम् * १ दूषणयुक्तत्वम् ॥ १४०१ ॥

<bold>
दृश्यत्वं-</bold> भानभास्यत्वम् * १ फलविषयत्वम् २ वृत्तिप्रतिफलित-

चिद्विषयत्वमिति ग्रं० ३स्वसमसत्ताकज्ञानविषयत्वम्॥ १४०५॥

<bold>
दृष्टकूटं-</bold> कूटार्थभाषितवाक्यम् १ अन्यार्थत्वे सत्यन्यार्थबोधकत्वं

दृष्टकूडत्वम् २ पर्वताग्रे रथो याति भूमौ तिष्ठति सारथिः,

भ्रमँश्च वायुवेगेन पदमेकं न गच्छति 'कुलालचक्रम्'

पञ्चभत्री न पाञ्चाली द्विजिह्वा न च सर्पिणी, श्यामाझ्स्या न
 

च मार्जारी यो जानाति स पण्डितः 'लेखनी' ॥१४०९ ॥

<bold>
दृष्टान्तः -</bold> दृष्टः अन्तोऽवसानं निर्णयो यस्मिन् १ वादिप्रतिवा-

दि (निर्णीतोर्थ: २) संमतोऽर्थः, यथा महानसम् ३ वादिप्रति-

वादिनोः साध्यसाधनोभयप्रकारकतदभावद्वयप्रकारकान्यतर-

निश्चयविषयः ४ निश्चितसाध्यकत्वं दृष्टान्तत्वम् ॥ १४१४ ॥

<bold>
दृष्टार्थापत्तिः -</bold> अनुपपद्यमानदृष्टार्थज्ञानात्तदुपपादकीभूतार्था-

न्तरकल्पनम्, यथा दिवाऽभोजिदेवदत्ते रात्रिभोजनमन्तरा-

नुपपद्यमानपीनत्वदर्शनात्तदुपपादकीभूतस्यार्थान्तरस्य (रात्रि-

भोजनस्य ) कल्पनम् ॥ १४१६ ॥
 

<bold>
दृष्टिः-</bold>दर्शनम् १ चक्षुद्वारारूपोपलब्धिहेतु मनोवृत्तिः ॥१४१८॥
 
be