This page has not been fully proofread.

६४ (घंटे
 
* सर्वलक्षणसङ्ग्रहः *
 
दुराचारिणी-अपचरित्रा १ परभर्तृगामिनीति ग्रं० ॥१३९५॥
दूषकः -दोषोत्पादकः १ सदोषत्वसम्पादको वा ॥ १३९७ ॥
दूषणं-दोषजनकम् १ बाधकप्रमाणोपन्यासरूपधुक्तिभिः खण्डनं
दूषितत्वम्-प्राप्तदोषत्वम् * १ दूषणयुक्तत्वम् ॥ १४०१ ॥
दृश्यत्वं भानभास्यत्वम् * १ फलविषयत्वम् २ वृत्तिप्रतिफलित-
चिद्विषयत्वमिति ग्रं० ३स्वसमसत्ताकज्ञानविषयत्वम्॥ १४०५॥
दृष्टकूटं-कूटार्थभाषितवाक्यम् १ अन्यार्थत्वे सत्यन्यार्थबोधकत्वं
दृष्टकूडत्वम् २ पर्वताग्रे रथो याति भूमौ तिष्ठति सारथिः,
भ्रमँश्च वायुवेगेन पदमेकं न गच्छति 'कुलालचक्रम्'
पञ्चभत्री न पाञ्चाली द्विजिह्वा न च सर्पिणी, श्यामाझ्या न
 
च मार्जारी यो जानाति स पण्डितः 'लेखनी' ॥१४०९ ॥
दृष्टान्तः - दृष्टः अन्तोऽवसानं निर्णयो यस्मिन् १ वादिप्रतिवा-
दि (निर्णीतोर्थ: २) संमतोऽर्थः, यथा महानसम् ३ वादिप्रति-
वादिनोः साध्यसाधनोभयप्रकारकतदभावद्वयप्रकारकान्यतर-
निश्चयविषयः ४ निश्चितसाध्यकत्वं दृष्टान्तत्वम् ॥ १४१४ ॥
दृष्टार्थापत्तिः - अनुपपद्यमानदृष्टार्थज्ञानात्तदुपपादकीभूतार्था-
न्तरकल्पनम्, यथा दिवाऽभोजिदेवदत्ते रात्रिभोजनमन्तरा-
नुपपद्यमानपीनत्वदर्शनात्तदुपपादकीभूतस्यार्थान्तरस्य (रात्रि-
भोजनस्य ) कल्पनम् ॥ १४१६ ॥
 
दृष्टिः-दर्शनम् १ चक्षुद्वारारूपोपलब्धिहेतु मनोवृत्तिः ॥१४१८॥
 
be