This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः *
 
vs
 
६० [तात्प]
 
<bold>तदर्थ:-</bold> तस्यार्थः १ तदुपकारकः २ उपकार्योपकारकभावः ।

<bold>
तनुमान सशासज्ञानभूमिका-</bold> निदिध्यासनाभ्यासेन मनस एका-
प्

ग्
रतया सूक्ष्मवस्तुग्रहणयोग्यता ।
[णमप्यत्रप०
 
w
 

<bold>
तनुव्यसनं-</bold> तनुपोषणे साभिनिवेश प्रवृत्तिः १ 'देहवासना' लक्ष-
तन्त्रम् -

<bold>तन्त्रम् -</bold>
कार्यसाधकम् १ दृढप्रमाणम् * २ विस्ताराभावः ३

इतराधीनम् ४ स्वराष्ट्रचिन्ता वा ५ उभयार्थैकप्रयोगः ६ सकृ-

दुच्चारितत्वे सत्यनेकार्थबोधकत्वं तन्त्रत्वम् ॥ १२९६ ॥

<bold>
तपः-</bold> क्षुत्पिपासाशीतोष्णादिद्वन्द्वसहनम् १ शास्त्रीय मार्गेण काये-

न्द्रियशोषणम् २ मनसश्चेन्द्रियाणाञ्चैकाव्यग्र्याम् ३ अन्तर्मुखा-

नि यदि खानि तपस्ततः किं ! नान्तर्मुखानि यदि खानि

तपस्ततः किम्, अन्तर्बहिर्यदि हरिश्च तपस्ततः किं !

नान्तर्बहिर्यदि हरिश्च तपस्ततः किम् ॥ १२९७ ॥

<bold>
तमः-
</bold>तेजोऽभावः १स्पर्शरहितत्वे सति रूपवत्त्वं तमस्त्वम् । पृथि-

व्यादिवारणाय सत्यन्तम्, आकाशादिवारणाय रूपवदिति ।

<bold>
तमोगुणत्वं-</bold>गुरुत्वे सत्यावरकत्वे सति मोहकत्वम् ॥ १३००॥

<bold>
तर्क:-</bold> अनिष्ट ([पादनम् १ ) प्रसञ्जकः २ व्याप्यारोपेण व्यापका-

रोपः, यथा यदि पर्वते वहिह्निर्न स्यात्तर्हि धूमोऽपि न स्यात् ३

युक्त्याऽर्थनिर्णयः ४ व्यभिचारादिशङ्कानिवर्तकः ॥१३०५ ॥

<bold>
तात्पर्य-</bold> वक्तुरिच्छा १ प्रकरणोचितप्रतीतिजननानुकूलवृत्तिमत्त्वं

<bold>
तात्पर्यानुपपत्तिः-</bold> मुख्यार्थप्रत्यायने सति तात्पर्यस्यानुपपन्नत्वं