This page has been fully proofread once and needs a second look.

* सवेलक्षणसङ्ग्रहः *
 
[तथा] ५९
 
<bold>ज्योतिषं
-</bold> ज्योतिः अधिकृत्य कृतं शास्त्रम १ सूर्यादिग्रहगत्या-

दिकप्रतिपादको ग्रन्थः * २ सूर्यादिज्योतिर्द्वारा कर्मानुष्ठान-

कालनिर्णयेष्टानिष्टफलप्रदर्शकम् ॥ १२७२ ॥

<bold>
टिप्पनी-</bold> मूलटी कार्थबोधक्षमव्याख्यारूपा १ टेपतीति ॥१२७४॥

<bold>
टीका-</bold> विषमपदव्याख्यारूपा १ व्याख्यान' लक्षणमप्यत्र पठनीयं
 

 

 
<bold>*त*</bold>
 
<bold>
तटस्थः -</bold> वादिप्रतिवादिभावानापन्नः१तद्भित्वे सति तद्बोधकः

<bold>
तटस्थलक्षणत्वं-</bold> कादाचित्कत्वे सति व्यावर्तकत्वम्, यथा देव-

दत्तस्य तिलकादिकम् । स्वरूपलक्षणेतिव्याप्तिवारणाय सत्य-

न्तम्, लक्ष्यावृत्तितादृशधर्मेऽतिव्याप्तिवारणाय व्यावर्तकेति F

<bold>
तत्पुरुषसमासः-</bold> उत्तरपदार्थप्रधानः समासः १ समासप्रयुक्त -

लक्षणाशून्योत्तरनामपदकत्वे सति लुप्तद्वितीयादिविभक्तिकपूर्व-

नामपदकसमासः । पञ्चफलीत्यादिवारणाय सत्यन्तम्, नीलो-

त्पलादिवारणाय लुप्तेत्यादि २० तनुत्पुरुषपरिभाषाविषयत्वम् ।

<bold>
तत्त्वज्ञानं-</bold> यथार्थज्ञानम् *१जीवब्रह्मणोरभेद(निश्चयः२) गोच-

राऽन्तःकरणवृत्तिः २ इदं सर्वं द्वैतजातमद्वितीये चिदानन्दात्मनि

मायया कल्पितत्वा मृषैव आत्मैवैकः परमार्थसत्यः सच्चिदान-

न्दाद्वयोऽहमस्मीति ज्ञानम् ३'आत्मज्ञान' लक्षणमप्यत्र पठनीयं

<bold>
तत्त्वंपदार्थशोधनं-</bold> यद्यद्ध्द्यावृत्तं तत्तदनात्मा यदन्वयि तदात्मे -

<bold>
तथाहि-</bold> उक्तार्थदृढीकरणम् ।
[ ति निश्चयः