This page has been fully proofread once and needs a second look.

* सर्व<bold>जीवनं-</bold> प्राणधारण (म् १ ) नुकूक्षणसङ्ग्रहः *
 
[ज्ञात] ५७
 
व्यापारः२जीव्यतेऽनेनेति ।
 
जीवनं प्राणधारण (म् १ ) ानुकूलव्यापारः

<bold>
जीवनचरितं-</bold> जीवनवृत्तान्तयुक्तो ग्रन्थः ॥ १२३२ ॥

<bold>
जीवन्मुक्तः-</bold> स्वतः परतश्च व्युत्थानाव्युत्थान रूपपञ्चमीषष्ठ्यादि-

भूमिकायुक्तः १ प्रारब्धकर्मनिवृत्तिपर्यन्तंः(बाधितचित्तादिम-

त्त्वम् २ ) सुषुप्तिवयवहर्ता ३ जीवदवस्थायौँयी ( त्यक्तसंसारः ४)

हर्षशोकादिरहितत्वे सति स्वस्वरूपज्ञानवत्त्वं जीवन्मुक्तत्वम् ।

<bold>
जीवन्मुक्तिः-</bold> श्रवणादिभिरुत्पन्नसाक्षात्कारस्य विद्वत्संन्यासिनः

कर्तृत्वाद्यखिलबन्धप्रतिभासनिवृत्तिः १ स्वस्मिन्स्वदृशा सतता-

ध्यासाप्रतिभासे सति यावत्प्रारब्धं स्वचित्ताद्यवस्थितिः । अज्ञ-

समाधौ लोकदृष्टयाsध्यासाप्रतिभासे सत्येव चित्ताद्यवस्थितिर

स्तीति तत्रातिव्याप्तिवारणाय स्वस्मिन्स्वदृशेति, तत्त्वज्ञा-

नोत्तरक्षणिकवृत्त्यभावे व्यभिचारवारणाय सततेति पदम्,

स्वपदमादिपदं च क्रमात्कस्यचि जीवन्मुक्तिसत्त्वे कस्मिँश्चिदज्ञे

यावत्प्रारब्धं चित्ताद्यवस्थितिसत्त्वात्तत्रातिव्याप्तिस्तथा व्युत्थि-

तस्थितप्रज्ञे चक्षुरादिसत्त्वात्तत्राव्याप्तिरिति तयोर्व्यावृत्त्यै ।

<bold>
जीवसाक्षी-</bold> अन्तःकरण (ोपलक्षितः १)
तद्द्वृत्त्यन्यतरोपहितं चैतन्यं

<bold>
जीवाश्रयप्रमा-</bold> अनधिगताबाधितविषयाकारान्तःकरणवृत्ति.

प्रतिबिम्बिता चित् । स्मृतावतिव्याप्तिवारणायान धिगतेति ।
 

<bold>ज्ञातत्वम्-</bold>ज्ञानभास्यत्वम् ।
[क्षणमप्यत्रप
 

<bold>
ज्ञातत्वम्-ज्ञानभास्यत्वम् ।
 
ज्ञातसत्ता-
सत्ता-</bold>ज्ञानसमकालीन विषयसत्ता १ 'प्रातिभासिकसत्ता'ल-