This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः *
 
[ज्ञात] ५७
 
२जीव्यतेऽनेनेति ।
 
जीवनं प्राणधारण (म् १ ) ानुकूलव्यापारः
जीवनचरितं जीवनवृत्तान्तयुक्तो ग्रन्थः ॥ १२३२ ॥
जीवन्मुक्तः स्वतः परतश्च व्युत्थानाव्युत्थान रूपपञ्चमीषष्ठ्यादि-
भूमिकायुक्तः १ प्रारब्धकर्मनिवृत्तिपर्यन्तंः(बाधितचित्तादिम-
त्त्वम् २ ) सुषुप्तिवयवहर्ता ३ जीवदवस्थायौँ ( त्यक्तसंसारः ४)
हर्षशोकादिरहितत्वे सति स्वस्वरूपज्ञानवत्त्वं जीवन्मुक्तत्वम् ।
जीवन्मुक्तिः श्रवणादिभिरुत्पन्नसाक्षात्कारस्य विद्वत्संन्यासिनः
कर्तृत्वाद्यखिलबन्धप्रतिभासनिवृत्तिः १ स्वस्मिन्स्वदृशा सतता-
ध्यासाप्रतिभासे सति यावत्प्रारब्धं स्वचित्ताद्यवस्थितिः । अज्ञ-
समाधौ लोकदृष्टयाsध्यासाप्रतिभासे सत्येव चित्ताद्यवस्थितिर
स्तीति तत्रातिव्याप्तिवारणाय स्वस्मिन्स्वदृशेति, तत्त्वज्ञा-
नोत्तरक्षणिकवृत्त्यभावे व्यभिचारवारणाय सततेति पदम्,
स्वपदमादिपदं च क्रमात्कस्यचि जीवन्मुक्तिसत्त्वे कस्मिँश्चिदज्ञे
यावत्प्रारब्धं चित्ताद्यवस्थितिसत्त्वात्तत्रातिव्याप्तिस्तथा व्युत्थि-
तस्थितप्रज्ञे चक्षुरादिसत्त्वात्तत्राव्याप्तिरिति तयोर्व्यावृत्त्यै ।
जीवसाक्षी- अन्तःकरण (ोपलक्षितः १)
तद्द्वृत्त्यन्यतरोपहितं चैतन्यं
जीवाश्रयप्रमा- अनधिगताबाधितविषयाकारान्तःकरणवृत्ति.
प्रतिबिम्बिता चित् । स्मृतावतिव्याप्तिवारणायान धिगतेति ।
 
[क्षणमप्यत्रप
 
ज्ञातत्वम्-ज्ञानभास्यत्वम् ।
 
ज्ञातसत्ता-ज्ञानसमकालीन विषयसत्ता १ 'प्रातिभासिकसत्ता'ल-