This page has been fully proofread once and needs a second look.

५६ [जोव]
 
* सर्वलक्षणसङ्ग्रहः *
 
त्तमिति वै०२ अनुगतबुद्धिव्यवहारहेतुभूतापरसामान्यम् ३मन-

स्त्वात्मत्वातिरिक्तनित्यमात्रसमवेतान्यत्वे सति समवेतसत्ताना-

श्रयः ४ अनिर्वचनीयबहुपदार्थघटितधर्मान्यतरधर्मरूपोपाधि-

भिन्नत्वे सति नित्यत्वे सत्यनेकव्यक्तिवृत्तिधर्मः । घटादौ व्य-

भिचारनिरासाय नित्यत्वे सतीति, अखण्डोपाधिरूपाभा-

वत्वादावतिप्रसङ्गवारणायोपाधिभिन्नत्वे सतीति, जलपर-

माणुरूपादौ व्यभिचार निवृत्तयेऽनेकव्यक्तिवृत्तित्वमिति ।

<bold>
जात्युत्तरं-</bold>असदुत्तरम् १ स्वप्रतिबन्धकमुत्तरमिति मंग्रं० २

छलादिभिन्नदूषणासमर्थमुत्तरम् ॥ १२१२ ॥

<bold>
जारत्वम्-</bold>पराङ्गनाविषयकास्फुटानुरागवत्त्वम् ॥ १२१३ ॥

<bold>
जिज्ञासा-</bold>ज्ञातुमिच्छा १ अज्ञातादिबुद्धिसिद्धये प्रवर्तिकेच्छा ।

<bold>
जिज्ञासुः -</bold> ज्ञातुमिच्छु: १ आत्मज्ञानार्थिमुमुक्षुर्वा ॥१२१७॥

<bold>
जितेन्द्रियः-</bold> श्रुत्वा स्पृष्ट्वाथ दृष्ट्वा च भुक्त्वा प्घ्रात्वा च यो

नरः, न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रिय: <error>१२१८
</error><fix>॥१२१८॥</fix>
<bold>
जीवः -</bold> ज्ञानदर्शन: नादिमानिति जैनाः १ सुखादिसमवायिकारण-

मिति नै० २ प्राणधारणा (श्रयः ३ ) नुकूलव्यापाराश्रयः ४

इन्द्रियविशिष्टशरीरवानिति ग्रं० ५ अविद्योपहितं चैतन्यम् ६

अविद्या (वच्छिन्नं चैतन्यम् ७) प्रतिबिम्बितं चैतन्यम् ७८

यद्वा, अन्तःकरणा (भासश्चेतनः ९ ) वच्छिन्नं चैतन्यम् १०

अन्तःकरणप्रतिबिम्बितचैतन्यं वा ११चैतन्यमित्येकजीववादे ।
 
-
 
-
 

 
-
 
-