This page has not been fully proofread.

५६ [जोव]
 
* सर्वलक्षणसङ्ग्रहः *
 
त्तमिति वै०२ अनुगतबुद्धिव्यवहारहेतुभूतापरसामान्यम् ३मन-
स्त्वात्मत्वातिरिक्तनित्यमात्रसमवेतान्यत्वे सति समवेतसत्ताना-
श्रयः ४ अनिर्वचनीयबहुपदार्थघटितधर्मान्यतरधर्मरूपोपाधि-
भिन्नत्वे सति नित्यत्वे सत्यनेकव्यक्तिवृत्तिधर्मः । घटादौ व्य-
भिचारनिरासाय नित्यत्वे सतीति, अखण्डोपाधिरूपाभा-
वत्वादावतिप्रसङ्गवारणायोपाधिभिन्नत्वे सतीति, जलपर-
माणुरूपादौ व्यभिचार निवृत्तयेऽनेकव्यक्तिवृत्तित्वमिति ।
जात्युत्तरं-असदुत्तरम् १ स्वप्रतिबन्धकमुत्तरमिति मं० २
छलादिभिन्नदूषणासमर्थमुत्तरम् ॥ १२१२ ॥
जारत्वम्-पराङ्गनाविषयकास्फुटानुरागवत्त्वम् ॥ १२१३ ॥
जिज्ञासा-ज्ञातुमिच्छा १ अज्ञातादिबुद्धिसिद्धये प्रवर्तिकेच्छा ।
जिज्ञासुः - ज्ञातुमिच्छु: १ आत्मज्ञानार्थिमुमुक्षुर्वा ॥१२१७॥
जितेन्द्रियः श्रुत्वा स्पृष्ट्वाथ दृष्ट्वा च भुक्त्वा प्रात्वा च यो
नरः, न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रिय: १२१८
जीवः - ज्ञानदर्शन: दिमानिति जैनाः १ सुखादिसमवायिकारण-
मिति नै० २ प्राणधारणा (श्रयः ३ ) नुकूलव्यापाराश्रयः ४
इन्द्रियविशिष्टशरीरवानिति ग्रं० ५ अविद्योपहितं चैतन्यम् ६
अविद्या (वच्छिन्नं चैतन्यम् ७) प्रतिबिम्बितं चैतन्यम् ७८
यद्वा, अन्तःकरणा (भासश्चेतनः ९ ) वच्छिन्नं चैतन्यम् १०
अन्तःकरणप्रतिबिम्बितचैतन्यं वा ११चैतन्यमित्येकजीववादे ।
 
-
 
-