This page has been fully proofread once and needs a second look.

-
 
* सर्वलक्षणसङ्ग्रहः *
 

 
[मर्थः
 
<bold>जट:-</bold> अपरिच्छिन्नासभ्यवदनपर इति मैत्र्युपनिषट्टीकायाम्

<bold>
जड:-</bold> स्वतःप्रत्यया भाववान्*१इष्टानिष्टानभिज्ञः २वेदग्रहणास

<bold>
जनकत्वं-</bold> अनन्यथासिद्धत्वे सति नियतपूर्ववृत्तित्वम् ।

<bold>
जन्म-</bold>आद्यशरीर प्राणसंयोगः १ स्वादृष्टोपनिबद्धशरीर ग्रहण मिति

ग्रं० २ शरीरवियोगक्षणमारभ्य पुनः सुखाद्युपलब्धिपूर्वक्षणपर्य-

<bold>
जयः-</bold> उत्कर्षलाभः १ शत्रुप राण्ङ्भुखीकरणम् । [न्तमवस्थितिः
 

<bold>
जल्पः-</bold> प्रलापः * १ परप‍निराकरणपूर्वकस्वपक्षस्थापनावती

विजिगीषुकथा ।
[गत्यागलक्षणा'लक्षणमप्यत्र ०

<bold>
जहदजहल्लक्षणा-</bold> एकदेशपरित्यागे सत्येकदेशपरिप्रहरूपा' भा-

<bold>
जहल्लक्षणा-</bold> शक्यमात्रपरित्यागेन तत्संबन्ध्यर्थान्तरे वृत्तिः,

यथा गङ्गायां घोष इति गङ्गापदस्य तीरे १ लक्ष्यतावच्छे-

दकरूपेण लक्ष्यमात्रबोधप्रयोजिका लक्षणा ॥ ११९८ ॥
 
-
 
[जाति]५५
 

<bold>
जाग्रज्जाग्रत्वम्-</bold>प्रमाज्ञानत्वम्
 
॥ १२०० ॥
 

<bold>
जाग्रत्सुषुप्ति:-</bold> जाग्रवस्थायां श्रमादिना स्तब्धीभावः <error>१२०१
</error><fix>॥१२०१॥</fix>
<bold>
जाग्रत्स्वप्नः-</bold> शुक्तिरजतादिभ्रमः ॥ १२०२ ॥
 

<bold>
जाग्रदवस्था-</bold>इन्द्रियजन्यान्तःकरणवृत्त्यवस्था १ दिगाद्यधिष्ठा-

तृदेवतानुगृहीतैरिन्द्रियैः शब्दादिविषयानुभवास्था । सुषुप्ता-

वतिव्याप्तिवारणाय शब्दादीति, स्वप्नवारणाय दिगादीति ।

<bold>
जातिः-</bold> समानज्ञानजननी ४१ भिन्नेष्वभिन्नाभिधान प्रत्ययनिमि-
-
 

-