This page has not been fully proofread.

५४[छेद]
 
* सर्वलक्षणसङ्ग्रहः *
 
चान्द्रायणं - एकैकं वर्द्धयेत्पिण्डं शुक्ले कृष्णे च ह्रासयेत्,
इन्दुक्षये न भुञ्जीत एष चान्द्रायणो विधिः ॥ १३६० ॥
चारित्रम्-पापात्मकक्रियारम्भमात्रत्याग इति बौद्धाः ११६१
चार्वाकः तार्किकविशेषः : बृहस्पतिशिष्यत्वे सति देहात्मवादी
चिकित्सा-व्याधिनिवारणो व्यापारः ॥ ११६४ ॥
चिकीर्षा - सम्पादनेच्छा । प्रवृत्तिहेतुरिच्छेति मं० ॥११६६॥
चित्तम्- अनुसन्धानात्मंकवृत्तिमदन्तःकरणम् ॥ ११६७ ॥
चित्त्वं - अलुप्तप्रकाशत्वम् १ समस्तवस्त्ववभासऋत्वमिति ग्रं०
चिदाभासः - चित्प्रतिबिम्ब: १ चिल्लक्षणरहितत्वे सति चिद्वद्भा-
चिन्तनं उपदिष्टार्थानुसन्धानम् ।
 
-
 
[समान:
 
चिन्ता - इष्टाप्राध्यनिष्टप्राप्तिहेतुको भूलेखनाधोमुखत्वादिकरो
मानसो विकार विशेषः ॥ ११७३ ॥
 
चेष्टा उद्योगः १ हिताहितप्राप्तिपरिहारा (नुकूला क्रिया २ ) र्था
क्रिया * ३ सङ्केतबलेन स्वाभिप्रायप्रकाशनमिति नर्तकाः ११७७
छन्दः - लौकिकवैदिकशब्दांशलन्दयति नियमयति प्रतिपादयति
विरामादिव्यवस्थापको ग्रन्थः १ छन्दोबद्धवाक्यम् २ निय-
मितवर्णमात्रानिबद्धचतुष्पादादिपद्यमिति ० ॥ ११८० ॥
 
छलं - शब्दवृत्तिव्यत्ययेनेतरार्थकल्पनम्१वक्तृतात्पर्याविषयार्थ-
कल्पनेन दूषणाभिधानम्, यथा नवकम्बलोयं देवदत्तः ।
छेदनं- आरम्भकसंयोगविरोधिविभागा(नुकूलक्रिया)
वच्छिन्न क्रिया