This page has been fully proofread once and needs a second look.

* सर्वळक्षणसङ्ग्रहः *
 
[चम]५३
 
<bold>ग्रन्थः- </bold>अलौकिकैक प्रयोजनोद्देशेन प्रवृत्तवाक्यसमुदायः <error>११३६
</error><fix>॥११३६॥</fix>
<bold>
ग्रहणं-</bold> उपदिष्टार्थस्य सद्योवधारणसामर्थ्यम् १ शिष्यकृतप्रश्ना-

क्षेपवाक्यार्थानां सद्योवधारणसामर्थ्यमिति ग्रं० ॥११३७ ॥

<bold>
ग्राम: -</bold> लोकालयः १ ह्ट्टादिशून्यवसतिरिति श्रीधरः २ विप्रा-

दिवर्णप्रायाप्राकार परिखादिरहिता बहुजनवसतिः ॥११४० ॥

<bold>
ग्राह्यम् -</bold> अङ्गीकार्यम् * १ लौकिकप्रत्यक्षस्वरूपयोग्यम् <error>११४२
</error><fix>॥११४२॥</fix>
<bold>
ग्लानि: -</bold> अनुत्साहः १ दोषदर्शनजन्याप्रवृत्तिर्वा ॥११४४॥
[रूपक) वत्त्रं
 
-
 

 
<bold>
घटत्वं-</bold> स्वाश्रयघटभिन्नाधिकरणावृत्तिर्जातिः
। [रूपक) वत्त्रं
<bold>
घटकत्वं-</bold> स्वविशिष्टत्वम् १ त (प्रत्येक) द्विषयताव्यापक विषयता (नि

<bold>
घटितत्वं-</bold> समुदायविषयताव्याप्यविषयतानिरूपकत्वम् <error>११४८
</error><fix>॥११४८॥</fix>
<bold>
घ्राणेन्द्रियं -</bold> गन्ध (ग्राहकत्वं घ्राणत्वम् १) पलब्धिसाधनमि-

न्द्रियम् । चक्षुरादावतिव्याप्तिवारणाय गन्धेति, कालादिवारणा-
[येन्द्रियमिति ।
 

 
<bold>*
च.
 
*</bold>
 
<bold>
चक्रकम् )-</bold> स्वापेक्षणीयापेक्षितसापेक्षत्वनिबन्धनप्रसङ्गः १पू-

<bold>
चक्रिका - )-</bold> र्वस्य पूर्वापेक्षितमध्यमापेक्षितोत्तरापेक्षितत्वम् ।

<bold>
चक्षुरिन्द्रियं-</bold> रूप ( ग्राहकत्वं चक्षुष्टुम् १) पब्धिसाधनभिन्द्रियं

<bold>
चतुरशीतिभ्रमणं-</bold> उच्चावचमध्यदेहप्रभेदग्रहणम्॥११५६॥
 

<bold>
चतुर्थीत्वं-</bold>ददात्यर्थधर्मिकसंप्रदानत्वानुभावक सुप्सजातीयत्वम्

<bold>
चरमत्वं-</bold> स्वसजातीयपदार्थप्रागभावानधिकरणकालवृत्तित्वम् ।

<bold>
चमसः-</bold> वतुरस्राकारस्समुष्टिकः प्रादेशमात्रो दाखःरवः पात्रविशेषः