This page has been fully proofread once and needs a second look.

५२[गौणी]
 
* सर्वलक्षणसङ्ग्रहः *
 
द्रव्यमात्राश्रितत्वम् ३ संयोगाजन्यसंयोगासमवायिकारणवृत्ति-

संयोगासमानाधिकरणजातिमत्त्वमिति शिवादित्यमिश्राः १११३
<error>१११३</error><fix>॥१११३॥</fix>
<bold>
गुणवादः-</bold>प्रमाणान्तरवि (रोधे सत्यर्थवादः १) रुद्धार्थ ( प्रतिपा

दकत्वम् २) ज्ञापकः शब्दः, यथादित्यो यूप इत्यादिः <error>१११६
</error><fix>॥१११६॥</fix>
<bold>
गुणोपसंस्कारः -</bold> भिन्नशाखागतानां गुणानामङ्गानां विशेष-

णानां वा एकबुद्धयुपारोहणम् ॥ १११७ ॥

<bold>
गुरुः -</bold> दीर्घस्वरवद्वर्णः *१ हितोपदेष्टा २ संशयापनोदको वा ३

सविध्युपनयनपूर्वकवेदाध्यापनकर्ता ४ गुशब्दस्त्वन्धकारः स्या-

द्रुशब्दस्तन्निरोधकः, अन्धकार निरोधित्वाद्गुरुरित्यभिधीयते ।

<bold>
गुरुत्वं-</bold> आद्यपतनासमवाय कारणम् । दण्डादिवारणायासमवा-

यीति, रूपादिवारणाय पतनेति, वेगेऽतिव्याप्तिवारयाद्येति

<bold>
गृहस्थः -</bold> वैवाहिकेन विधिना कृतपत्नोपरिग्रहः ॥ ११२४ ॥

<bold>
गोचरः -</bold> भूचरः *१ ज्ञाननिरूपितो विषयः ॥ ११२६ ॥

<bold>
गोत्रं-</bold>पुत्रपौत्रप्रभृतिकमपत्यम् १ संभावनीयबोधत्वं गोत्रत्वम् ।

<bold>गौण:-</bold>
गुणादागतः १वास्तविकारोपितान्यतरगुणसत्ताप्र-

<bold>गौणार्थ:-</bold>
योज्यारोपविषय इति ग्रं० २ स्वार्थमुत्सृज्यपरार्था-

वलम्बनम् ३ तद्धर्मप्रकारकप्रतीतिविशेष्या प्रसिद्धार्थः ॥ ११३२ ॥

<bold>
गौणप्रयोजनत्वं-</bold> मुख्य प्रयोजनेच्छाधीनेच्छाविषयत्वम् ११३३
<error>११३३</error><fix>॥११३३॥</fix>
<bold>
गौणीवृत्तिः-</bold> गुणमधिकृत्य प्रवृत्ता वृत्तिः १ लक्ष्यमाणगुणयो-

गेन स्वार्थादन्यत्र वृत्तिः, यथा सिंहो माणवकः ॥ ११३५॥
 
गौण:-
गौणार्थ: 5
 
}