This page has not been fully proofread.

भूमिका
 
श्रीमतः सूत्रकारान्भाष्यकाराँस्तथा तदनुसारिणः पूर्वाचा-
र्याच भूयो भूयो नमस्कृत्य द्वित्राः शब्दाः प्रदश्यन्ते, ये जना
नानाशास्त्रनिरीक्षणे श्रमभियस्तदर्थोऽयं मे सङ्ग्रहः । तथा
चार्य प्रन्थः शतसहस्रधा भूत्वा देशदेशान्तरवर्त्यनेक विद्वद्वन्द-
दृष्टिगोचरो भवेदेवश्च विद्यार्थिगणानां स्वल्पव्ययेन मित्रम्भवे-
दिति ज्ञात्वा श्रीमत्या मनोभरिदेव्या मुद्रापयित्वा प्रकटीकृतः ।
 
अत्र कदाचिदृष्टिदोषेण सीसकाक्षर्भङ्गाद्वा यदि कुत्रचि -
तस्थलेऽशुद्धिः स्यात्तर्हि सदयीभूय सुजनैः क्षन्तव्या इति ।
ॐ सङ्केतः
 
एतत्पुस्तकस्य प्रत्येक पृष्ठमध्ये निखिलतात्रिकलक्षणानि संस्थि-
तानि, तेषाञ्च झटिति प्राप्तयेऽकारादिक्रमेण सूचीकृता । तस्या.
न्तिमलक्षणस्याचं वर्णद्वयं पृष्ठोपरि विन्यस्तं वर्तते, तदृष्टिमात्रेण
यदक्षरपर्यन्तं लक्षणं तस्पृष्ठारूढीभूतं तद्बोधो भविष्यति । तेनेष्ट-
लक्षणानामनायासेन लाभो भविष्यतीति ।
 
ग्रं० मन्थान्तरे इत्यक्षरस्य ग्रहणं कृतम् । तत्तद्वन्धनामानि वि-
नै० नैयायिकाः
स्तरभिया नोक्तानि, विशेषलक्षणसमापन परं
मी० मीमांसकाः । विशेषलक्षणार म्भात्पूर्वञ्च तज्ज्ञापकमीदृशं
वे० वेदान्तिनः
 
वै० वैयाकरणा:
 
पुष्पाकारचिह्नं दत्तम् । तत्रोक्तप्रसिद्धलक्षण-
मेकत्वेन गणयित्वा द्व्यादिङ्ख्याका स्था-
पिता इति ।
 
९*४
 
त्र० त्रपठनीयम्