This page has been fully proofread once and needs a second look.

५० [खण्ड]
 
● सर्वलक्षणसङ्ग्रहः
 
दययाऽहिंसया क्षमया वा क्रोधस्य निवृत्तिः ॥ १०६० ॥

<bold>
क्लेशः -</bold> अविद्याद्यन्यतमः * १ बाधनालक्षणः ॥ १०६२ ॥

<bold>
क्षणः-</bold> व्यापारशून्यावस्थितिः १ स्वाधेयपदार्थप्रागभावानाधारः

समय इति ग्रं० २ निमेषक्रियावच्छिन्नस्य कालस्य चतुर्थो भागः

<bold>
क्षणिकत्वं-</bold> स्वाधिकरण समयप्रागभावाधिकरणक्षणा (नुत्पत्ति-

कत्वे सति कादाचित्कत्वम् १ ) वृत्तित्वम् २ तृतीयक्षणवॄ (त्त्यवृत्ति-

जातिमद्विशेषगुणत्वम् ३ ) त्तिध्वंसप्रतियोगित्वम् । घटादिवार-

णाय वृत्त्यन्तम् ४ क्षणान्तरासंबन्धित्वे सति क्षणसंबन्धित्वम्

<bold>
क्षमा-</bold>आकृष्टस्य ताडितस्य वाऽविकृतचित्तता१ सत्यपि सामर्थ्य

परिभवहेतुं प्रति क्रोधस्यानुत्पत्तिर्वा २ आक्रुष्टोऽभिहतो यस्तु

नाक्रोशेन हनेदपि, अदुष्टैर्वाङ्मनःकायै स्तितिक्षुश्च क्षमा स्मृता ।

<bold>
क्षयतापः-</bold> पुण्यकर्मक्षये पतनभीतिजन्यस्तापः ॥ १०७४ ॥

<bold>
क्षेपकः -</bold> विक्षेपकर्तरि ग्रन्थकूदकृतांशस्य तद्ब्रन्थमध्ये संनिवेशकः

<bold>
क्षेमः -</bold> स्थितरक्षणम् १ लब्धप्रतिपालनमिति ग्रं० ॥ १०७७ ॥

<bold>
क्षोभः -</bold> चित्तचाञ्चल्यम् १इच्छाविघाताच्चित्तपरितापो वा<error>१०७९
</error><fix>॥१०७९॥</fix>
<bold>*

 
*</bold>
<bold>
खञ्जत्वं-</bold> पादविकलत्वम् १संस्थान विशेषशून्यपादवत्त्वम् <error>१०८०
</error><fix>॥१०८०॥</fix>
<bold>
खण्डनं-</bold>नाशानुकूलव्यापारः १ स्वमतदोषपरिहारपूर्वकपरमत-

पदार्थनिराकरणम् *२ शब्दार्थानिर्वचनीयताप्रतिपादको ग्रन्थः

<bold>
खण्डप्रलय:-</bold> जन्यद्रव्यानधिकरणकालः १ नैमित्तिकप्रलयलक्ष ०
 
-
 

 
-