This page has not been fully proofread.

५० [खण्ड]
 
● सर्वलक्षणसङ्ग्रहः
 
दययाऽहिंसया क्षमया वा क्रोधस्य निवृत्तिः ॥ १०६० ॥
क्लेशः - अविद्याद्यन्यतमः * १ बाधनालक्षणः ॥ १०६२ ॥
क्षणः- व्यापारशून्यावस्थितिः १ स्वाधेयपदार्थप्रागभावानाधारः
समय इति ग्रं० २ निमेषक्रियावच्छिन्नस्य कालस्य चतुर्थो भागः
क्षणिकत्वं स्वाधिकरण समयप्रागभावाधिकरणक्षणा (नुत्पत्ति-
कत्वे सति कादाचित्कत्वम् १ ) वृत्तित्वम् २ तृतीयक्षण (त्त्यवृत्ति-
जातिमद्विशेषगुणत्वम् ३ ) त्तिध्वंसप्रतियोगित्वम् । घटादिवार-
णाय वृत्त्यन्तम् ४ क्षणान्तरासंबन्धित्वे सति क्षणसंबन्धित्वम्
क्षमा-आकृष्टस्य ताडितस्य वाऽविकृतचित्तता१ सत्यपि सामर्थ्य
परिभवहेतुं प्रति क्रोधस्यानुत्पत्तिर्वा २ आक्रुष्टोऽभिहतो यस्तु
नाक्रोशेन हनेदपि, अदुष्टैर्वाङ्मनःकायै स्तितिक्षुश्च क्षमा स्मृता ।
क्षयतापः- पुण्यकर्मक्षये पतनभीतिजन्यस्तापः ॥ १०७४ ॥
क्षेपकः - विक्षेपकर्तरि ग्रन्थकूदकृतांशस्य तद्ब्रन्थमध्ये संनिवेशकः
क्षेमः - स्थितरक्षणम् १ लब्धप्रतिपालनमिति ग्रं० ॥ १०७७ ॥
क्षोभः - चित्तचाञ्चल्यम् १इच्छाविघाताच्चित्तपरितापो वा१०७९
छ ख
 
खञ्जत्वं पादविकलत्वम् १संस्थान विशेषशून्यपादवत्त्वम् १०८०
खण्डनं-नाशानुकूलव्यापारः १ स्वमतदोषपरिहारपूर्वकपरमत-
पदार्थनिराकरणम् २ शब्दार्थानिर्वचनीयताप्रतिपादको ग्रन्थः
खण्डप्रलय:- जन्यद्रव्यानधिकरणकालः १ नैमित्तिकप्रलयलक्ष ०
 
-