This page has been fully proofread once and needs a second look.

!
 
* सर्वलक्षणसङ्ग्रहः *
 
[क्रोध] ४९
 
<bold>केवललक्षणा-</bold> शक्यसाक्षात्सम्बन्धः ॥ १०३४ ॥

<bold>
केवलव्यतिरेकित्वं-</bold> अन्वयव्याप्तिशून्यत्वे सति व्यतिरेकव्या-

प्तिमत्त्वम् ।
[गितानवच्छेदकधर्मवत्त्वं
 

 
<bold>
केवलान्वयित्वं-</bold> अत्यन्ताभा (वाप्रतियोगित्वम् १ ) वीयप्रतियो-

<bold>
कैवल्यं-</bold> सजातीय द्वितीयरहितत्वम् १ 'मोक्ष' लक्षणमप्यत्र पठनीयं

<bold>
कोटित्वं-</bold>कोटिसङ्ख्याविशिष्टत्वम् १ संशयजनकज्ञानीयप्रकारतावत्त्वं

<bold>
कोशः -</bold> असिकोशवदात्माच्छादकः * १ शब्दपर्यायप्रकाशको

ग्रन्थः २ शब्दार्थ ( प्रतिपादकत्वम् ३)निर्वचनपरिज्ञापकत्वं कोशत्वं

<bold>
कौतूहलत्वं-</bold>विस्मयविशिष्टजिज्ञासाविशेषत्वम् ॥ १०४६ ॥

<bold>
कौपीनम् -</bold> पुरुषलिङ्गावारको वस्त्रखण्ड: १ कुत्सितस्य पीनस्य

मांसस्यावरणम् २ एकहस्तप्रविस्तारं करद्वन्द्वसमायतम्,

विलम्बिततृतीयांश गुह्याच्छादनमीरितम् ॥ १०४९ ॥

<bold>
क्रमः-</bold>सामर्थ्यहेतुकव्यापारः१ परिपाट्या यथोचितसन्निवेशः २

चिन्त्यमानार्थसंप्राप्तिरिति ग्रं० ३ पूर्वापरावस्थानत्वं क्रमत्वम्

<bold>
क्रमसमुच्चयः -</bold> एकेन कर्त्रा ज्ञानकर्मणोः क्रमेणानुष्ठानम् ।

<bold>
क्रिया-</bold> करणव्यापारनिष्पाद्या * १ संयोगविभागयोरसाधारणो

हेतुः २ क्रियान्तराकाङ्क्षानुत्थापकत्वं क्रियात्वम् ॥ १०५६ ॥

<bold>
क्रीडा-</bold>हर्षजनकहस्तादिविक्षेपः* १ बाह्य साधनसापेक्षा <error>१०५८
</error><fix>॥१०५८॥</fix>
<bold>
क्रोधः -</bold> अनिष्टविषय ( दर्शनादिहेतुको मनोविकारः १ ) द्वेष-

हेतुकः २ कामितार्थविघातजन्यो बुद्धिक्षोभ इति ग्रं० ३