This page has been fully proofread once and needs a second look.

४६ [काम्य ]
 
* सवलक्षणसङ्ग्रहः *
 
-
 
<bold>कर्मेन्द्रियं-</bold> वदनादिव्यापारकरणमिन्द्रियम् १ अपञ्चोकृतपञ्च-

महाभूतकार्यत्वे सति वेदनादिक्रियासाधनत्वं कर्मेन्द्रियत्वम् ।

<bold>
कर्षणं-</bold>देशान्तरसंयोगानुकूलव्यापारानुकूलव्यापारः ॥१५९॥

<bold>
कलियुगं -</bold> कलिरेव युगम् १ निर्बांबीजा पृथिवी निरोषधिरसा नीचा

महत्त्वं गताः, भूपाला निजधर्म-कर्मरहिताः विप्राः कुमार्गे

गताः । भार्या-भर्तृविरोधिनी पररता पुत्राः पितुर्दूषकाः, हा

कष्टं खलुवर्तते कलियुगे धन्या मृता ये नराः ॥ ९६० ॥

<bold>
कल्पः-</bold> ब्रह्मणो दिवसः * १ मन्त्रार्थसामर्थ्य प्रकाशको ग्रन्थः २

यज्ञपात्र निर्माण प्रकार प्रतिपादकं शास्त्रम् ३ यागप्रयोगप्रतिपा ●

<bold>
कल्पना-</bold>अप्रकृतविषयोद्भावनम् १ नूतनविषयोद्भावनं वा ।

<bold>
कषायः -</bold> चित्तस्य रागादिना स्तब्धीभावः ॥ ९६५ ॥

<bold>
काणत्वम्-</bold>चक्षुरिन्द्रियशून्यैकगोलकवत्त्वम्
॥ ९६६ ॥
<bold>
कादाचित्कत्वं-</bold> सत्त्वे सति किञ्चित्कालवृत्त्यभावप्रतियोगित्वं

<bold>
कामः-</bold>काम्यते जनैरिति, यथा स्वर्गादिः १ फलेच्छा २ इष्टविष-

याभिलाषः ३, अप्राप्तो विषयः प्राप्तिकारणाभावपि प्राप्यतामि-

त्याकारश्चित्तवृत्तिविशेषः * ४ सङ्गमेच्छा ५ विषयेन्द्रियजन्यं

सुखं वा ६ स्त्रीपुंसव्यतिकरतृष्णा ७ दमश्च निःसङ्कल्पश्च. कामं

शिथिलीकरोति १ ब्रह्मचर्येण वस्तुविचारेणास्य निवृत्तिः <error>९७४
काम्यत्वम्-
</error><fix>॥९७४॥</fix>
<bold>काम्यत्वम्-</bold>
तत्तत्फलेच्छाधीनेच्छा विषयत्वम् ॥ ९७५ ॥
काम्यकर्म-

<bold>काम्यकर्म-</bold>
स्वर्गादीष्टसाधनं कर्म, यथा ज्योतिष्टोमादि १ तत्त-
॥ ९६६ ॥