This page has not been fully proofread.

४४ [कर]
 
* सर्वलक्षणसङ्ग्रहः
 
एकार्थीभावः- अपृथगुपस्थितिविषयः १ विशेषणविशेष्यभावा-
वगाहित्वे परस्परान्वितत्वे वा सत्येकार्थोपस्थितिजनकत्वम् ।
एकेन्द्रिय वैराग्यं-पक्कसर्वकषाय ज्ञानेन चित्तोत्सुकता १ इन्द्रि-
यान्तरेषूपसंहृतेष्वप्यनुपसंहृतस्य मनसो वृत्तिजिहासेति ग्रं०
ऐकान्तिकत्वम्-साधनानन्तरमवश्यं भावित्वम् ॥ ९१८ ॥
ऐतिह्यप्रमाणम् - विशिष्यानिर्णीतप्रथमवक्तृकः शब्दविशेषः,
यथात्र वटे यक्षः १ अनिर्दिष्टवक्तृकं प्रवादपारम्पर्यम् ॥ ९२० ॥
ऐश्वर्य- इच्छानभिघातात्मकम् ॐ १ शासनकर्तृत्वम् ॥९२२॥
औत्सुक्यं रमणीयफलसाधनेनोत्कटेच्छा १ विषये रमणीयत्वबु-
च्या जायमानो ० २ कार्याकार्याविचारेण प्रवृत्तिहेतुराहादविशेषः
 
vis
 

 
कथा-इतिवृत्तवर्णनपरः प्रबन्धविशेषः १ नानाकर्तृकपूर्वोत्तरपक्ष-
प्रतिपादकवाक्यविस्तरः २तत्त्व निर्णयविजयान्यतरस्वरूपयोग्यो
न्यायानुगतवचनसंदर्भः । लौकिकविवादवारणाय न्यायेत्यादि
कनिष्ठं - अल्पतर (तरणिस्पन्दसंबन्धवान् १)
स्पन्दान्तरितजन्यं
कन्था-सूत्रप्रथितो जीर्णो वस्त्रखण्ड: १ तिर्यक्स्यूत बहुवस्त्रखण्ड -
समूह इति ग्रं० २त्यक्तं वस्त्रं गृहस्थेन बहिः प्रक्षाल्य यत्नतः,
सहस्रं डोरिकां दद्यात् कन्था सेत्यभिधीयते ॥ ९३१ ॥
कन्या-योन्यादिलज्जिताङ्गागुह्यकत्वे सति पांशुक्रीडावती ९३२
करणं-साधकतमम् १ क्रियानिष्पादकम्*२ व्यापारवदसाधारण-
2