This page has been fully proofread once and needs a second look.

* सवलक्षणसङ्ग्रहः क्र
 
[एका] ४२
 
कत्वमृग्वेदत्वम् ३) द्रव्यको वेद इति न्यायसुधायाम् ॥८८६॥

<bold>
ऋजुत्वं-</bold> वक्रत्वाभाववत्त्वम् । [पुनरर्पणबुद्ध्या गृहीतं
 

 
<bold>
ऋणं-</bold>अवश्यं (शोध्यम् १) देयम् २ अन्यस्वामिकं द्रव्यं नियतकाले

<bold>
ऋतम्भराप्रज्ञा -</bold> त्रैकालिक विषयावगाहिनी बुद्धिः ॥ ८९२ ॥

<bold>
ऋषित्वं-</bold> शास्त्र प्रणेतृत्वम् १मन्त्रद्रष्टृत्वम् यथा वसिष्टवामदेवा-

दयः २अतीन्द्रियार्थदर्शित्वम् ३ ज्ञानसंसारपारगामित्वमिति ग्रं०
 
94
 

 

<bold>*ए*</bold>
<bold>
एकत्वं-</bold> प्रथम सङ्ख्यान्वितत्वम् १ द्विवाद्यभाववत्त्वम् ७२ सजा-

तीय (निष्ठभेदाप्रतियोगित्वम् ३)विजातीयस्वगतभेदशून्यत्वम् ।

<bold>
एकदेशी-</bold>सिद्धान्तैकदेशाश्रायकत्वे सति स्वतन्त्राधिकार्थनिरूपकः

<bold>
एकपदत्वं-</bold> एकार्थविषयकशक्तिनिरूपकत्वम् यथा रामः <error>९०२
</error><fix>॥९०२॥</fix>
<bold>
एकभविकत्वं-</bold> एकजन्म ( नि फल ) जनकत्वम् ॥ ९०३ ॥

<bold>
एकवाक्यत्वं-</bold> अविसंवादिवाक्यत्वम्*१ विशिष्टैकार्थप्रतिपादक

त्वम् २एकार्थबोधक (त्वम् ३) नां शब्दानां मिथ आकाङ्क्ष त्यैकस्यां

बुद्धावारूढत्वमिति ग्रं० ४ निरूप्यनिरूप ( उपजीव्योपजीव )

कभावापन्नबोध विषयताप्रयोजकत्वम् ५ विशेषणविशेष्यावगा-

हिबोधजनकत्वम् * ६ भिन्नप्रतीतिविषयानेक मुख्य विशेष्यर-

हित (त्वे सति विभज्यमानसाकाङ्क्षत्वम् ७) त्वसमानाधिकर-

णान्वीयमानपदार्थान्वयाभावप्रयुक्ताकाङ्क्षानिवृत्तिश्शून्यत्वम् ।

<bold>
एकाग्र भूमिः-</bold> एकविषयकधारावाहिकवृत्तिसमर्थरूपा दशा ।