This page has not been fully proofread.

४२ [ऋग्वे]
 
* सवलक्षणसङ्ग्रहः *
 

 
प्रागेवेति ४ स्थानं निमित्तं वक्ता च श्रोता श्रोतृप्रयोज-
नम्, संबन्धाद्यभिधानञ्च उपोद्घातः स उच्यते ॥८६३ ॥
उभयत्वं द्वित्वविशिष्टत्वम् * १ अपेक्षाबुद्धि विशेषविषयत्वम् ।
उभयकर्मजसंयोगः-स्वजनकक्रियाऽभाववदसमवेतसंयोग
उल्लाप:- काकुवाक्यम् १ शोकरोगादिना ध्वनिविकार इति प्रं०
उल्लेख:- ) उत्कीर्तनम् १ इदं कर्तव्यमित्यादिना सङ्कल्पितार्थ-
उल्लेखनं ) प्रतिपादकशब्दोच्चारणम् * २ एकस्यापि निमित्त-
वशादनेकधा ग्रहणम् ३ सङ्कल्पितार्थकवाक्योच्चारणम् ८७२
ऊहः-प्राकृतप्रयोगस्यान्यथा भावः १ पदान्त (रप्रक्षेपः २) रेणा-
काङ्क्षापूरणार्थाध्याहार: * ३ शिष्येणानुक्तस्याप्यूहनम् ४ उप-
देशसमसमयं शिष्यप्रतिपत्त्यनुकूलापूर्वयुक्तिकल्पनं वा ५ संश-
यपूर्वपक्षनिराकरणपूर्वकोत्तरपक्षव्यवस्थापनम् ६ अनन्वितार्थ-
कविभक्तिलिङ्गत्यागपूर्वकमन्वययोग्यविभक्त्यादिकल्पनम्, यथा
पार्वणे सौम्यास इति बहुवचनमन्वितमप्येकोद्दिष्टेऽनन्वित-
त्वात्सौम्य इत्येकवचनान्ततया कल्पनम् ॥ ८८९ ॥
 
-
 
-
 
ऋड्यन्त्रः - नियताक्षरपादावसानो मन्त्रः १पादबद्धगायत्र्यादिच्छ-
न्दोविशिष्ट[१०४७२] मन्त्र इति पं० २ यत्रार्थवशेन पादव्यव-
ऋक्संहिता- अग्निमीले इत्यादिकऋक्समुदायः [स्थितिर्मन्त्र:
ऋग्वेदः- ऋग्बहुलो वेदः १ ऋगवयवको वेदः २ ऋग्(विनियोज-