This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः
 
[उपो] ४१
 
<bold>उपाध्यायः -</bold> एकदेशन्तु वेदस्य वेदाङ्गान्यपि वा पुनः, योऽ

ध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते इति भविष्ये ॥८४२ ॥
 

<bold>
उपाय: -</bold> उपक्रमः १ प्रतिकारपथः * २ साक्षात्परम्परया वा

यत्किञ्चित्कार्यजनने समर्थ: ३ उपायतेऽर्थोऽनेनेति ॥८४७॥

<bold>
उपार्जनं -</bold> स्वत्वसम्पादको व्यापारः ।
 
[षणदानं
 

<bold>
उपालम्भः-</bold> निन्दापूर्वक (दुष्टवचनम् १)तिरस्कार: २ परपक्षदू-

<bold>
उपासना-</bold>मुक्ति त्रप्र्योजिका विद्या *१ निकृष्टेषूत्कृष्टबुद्धिः २

वस्तुस्त्ररूपानपेक्षः पुरुषेच्छामात्र तन्त्रो मानसप्रवाह इति मं
ग्रं०
<bold>
उपासनाकाण्डं-</bold>उपासनातदितिकर्तव्यताबोधकप्रकरणम् १

मन्त्रोदितार्थस्येतिकर्तव्यताबोधककाण्डमिति ग्रं० ॥ ८५७ ॥

<bold>
उपेक्षा-</bold>संस्कारा जनिका बुद्धिः १ पापेषु सत्कारतिरस्कारयोरौ-

दासीन्यम् *२स्वत्वध्वंसमात्रजन कस्त्यागः ३परस्वत्वानभिसं-

धानपूर्वकस्वत्व प्रागभावसमानकालीनस्वत्वाविषयकेच्छेति ग्रं०

<bold>
उपोद्घाधातः-</bold> निर्दिष्टोपसाधकः १ प्रकृत (शास्त्रे प्रतिपाद्योपयोगि-

विचारः २ ) र्थसिद्ध्यनुकूलचिन्ताविषय इति ग्रं० ३ प्रतिपाद्य-

मर्थं बुद्धौ सङ्गृह्य प्रागेव तदर्थमर्थान्तरवर्णनम् । प्रतिज्ञातव-

र्णनवारणायार्थान्तरेति, असंबद्धार्थवर्णन व्यावृत्त्यर्थं तदर्थ-

मिति, अग्निमानयमिति प्रतिज्ञाय धूमवत्त्वादित्यर्थान्तर वर्णनं

व्यावर्तयितुं प्रतिपाद्यमर्थ बुद्धौ सङ्गह्येत्युक्तम्, तावत्युक्ते

बुद्धौ समृङ्ग्रृह्य पश्चात्प्रतिज्ञाय यद्वर्णनं तस्योपोद्धातत्वनिरासाय