This page has been fully proofread once and needs a second look.

४० [उपा]
 
* सर्वलक्षणसङ्ग्रहः *
 
कत्वम् २ अन्यपदार्थनिष्ठविशेष्यतानिरूपितप्रकारताप्रयोजकत्वं
 
H
 
कत्वम् २ अन्यपदार्थनिष्ठविशेष्यतानिरूपित

<bold>
उपसंहारः</bold> सम्यग्हरणम् १ प्रस्तावितशेष इति ग्रं० २विस्तरेण नि-

रूपितस्य पदार्थस्य सारांशकथनेन तन्निरूपण समापनम्३ एकत्र

श्रुतार्थस्यान्यत्रान्वयार्थमुपक्षेपः, यथा गुणोपसंहारः४ ग्रन्थतात्प-

र्यावधारकलिङ्गविशेषः ५ सामान्यप्राप्तस्य विशेषे नियमनमिति मी ०

<bold>
उपस्थः -</bold> व्यवायानन्दसाधन मिन्द्रियम् १ सुखक्रियासाधनमि०

<bold>
उपाख्यानं-</bold> श्रुतार्थकथनम् १ पूर्ववृत्तान्तकथनम् ॥ ८२९ ॥

<bold>
उपादान कारणं-</bold>कार्या (भिन्न कारणम् १) न्वितं कारणम्, यथा

घटादेर्मृदादि । रूपादावतिव्याप्तिवारणाय कारणमिति २स्व-

तादात्म्यापन्नकार्यजनकम् ३ कार्याधारत्वे सति कार्यजनिहेतुः ।

निमित्तकारणवारणाय सत्यन्तम्, भूतलादिवारणाय विशेष्यदलं

<bold>
उपादेयः -</bold> विधेयः १ उपादानजन्यः ४२आदानक्रियाविषयः <error>८३६
</error><fix>॥८३६॥</fix>
<bold>
उपाधिः -</bold> संमानसूचकः शब्दः १ उपसमीपे स्थित्वा स्वीर्यं

रूपमन्यत्रादधाति २ स्वस्मिन्निव स्वसंसर्गिणि स्वधर्मासञ्जकः ३

स्वान्वितांशविधेयानन्वयित्वे सति वर्तमानत्वे सति व्यावर्तक-

त्वम्, यथा जपाकुसुमादिकं स्फटिके लौहित्योपाधिः । प्रथम-

सत्यन्तेन नीलं घटं पश्येत्यादौ नीलत्वादेरुपाधित्वनिरासः,

काकैर्गृहं पश्येत्यादौ काकादेर्द्वितीय सत्यन्तेन निरासः, घट-

पटौ पश्येत्यत्र परस्परस्य परस्परोपाधित्ववारणाय विशेष्य-

दलम् ४ साध्यव्यापकत्वे सति साधनाव्यापकत्वम् ॥८४२ ॥