This page has not been fully proofread.

४० [उपा]
 
* सर्वलक्षणसङ्ग्रहः *
 
प्रकारताप्रयोजकत्वं
 
H
 
कत्वम् २ अन्यपदार्थनिष्ठविशेष्यतानिरूपित
उपसंहारः सम्यग्हरणम् १ प्रस्तावितशेष इति ग्रं० २विस्तरेण नि-
रूपितस्य पदार्थस्य सारांशकथनेन तन्निरूपण समापनम्३ एकत्र
श्रुतार्थस्यान्यत्रान्वयार्थमुपक्षेपः, यथा गुणोपसंहारः४ ग्रन्थतात्प-
र्यावधारकलिङ्गविशेषः ५ सामान्यप्राप्तस्य विशेषे नियमनमिति मी ०
उपस्थः - व्यवायानन्दसाधन मिन्द्रियम् १ सुखक्रियासाधनमि०
उपाख्यानं श्रुतार्थकथनम् १ पूर्ववृत्तान्तकथनम् ॥ ८२९ ॥
उपादान कारणं-कार्या (भिन्न कारणम् १) न्वितं कारणम्, यथा
घटादेर्मृदादि । रूपादावतिव्याप्तिवारणाय कारणमिति २स्व-
तादात्म्यापन्नकार्यजनकम् ३ कार्याधारत्वे सति कार्यजनिहेतुः ।
निमित्तकारणवारणाय सत्यन्तम्, भूतलादिवारणाय विशेष्यदलं
उपादेयः - विधेयः १ उपादानजन्यः ४२आदानक्रियाविषयः ८३६
उपाधिः - संमानसूचकः शब्दः १ उपसमीपे स्थित्वा स्वीर्यं
रूपमन्यत्रादधाति २ स्वस्मिन्निव स्वसंसर्गिणि स्वधर्मासञ्जकः ३
स्वान्वितांशविधेयानन्वयित्वे सति वर्तमानत्वे सति व्यावर्तक-
त्वम्, यथा जपाकुसुमादिकं स्फटिके लौहित्योपाधिः । प्रथम-
सत्यन्तेन नीलं घटं पश्येत्यादौ नीलत्वादेरुपाधित्वनिरासः,
काकैगृहं पश्येत्यादौ काकादेद्वितीय सत्यन्तेन निरासः, घट-
पटौ पश्येत्यत्र परस्परस्य परस्परोपाधित्ववारणाय विशेष्य-
दलम् ४ साध्यव्यापकत्वे सति साधनाव्यापकत्वम् ॥८४२ ॥