This page has not been fully proofread.

सवलक्षणसङ्ग्रहः
 
*
 
[उप] ३९
 
न्धेति, संयोगादिवारणाय संज्ञा संज्ञीति १ सादृश्यज्ञान ( दिप-
रत्रासनिकृष्टे सादृश्यज्ञानम् २)
जन्यं ज्ञानम् ३ सादृश्यवसादृश्या-
न्यतरधीकरणिका धीरिति खण्डनोद्वारे ४ शक्तिप्रकारकज्ञानं
उपमेयः उपमाविषयः १ सादृश्या (श्रयः २) नुयोगित्वमुपमेयत्वं
उपयोगः-
साक्षात्परम्परया वा कार्यजननम् १ इष्टसिद्धिसाधना-
उपयोगी-इष्टसाधनम् १ कार्यकारकः । [नुकूलव्यापारः
 
:
 
उपरतिः- कर्मादौ तत्साधने च दोषदर्शनपूर्विका घृणा १ ज्ञा-
नार्थ विहितनित्याद्यागमजन्यकर्मसंन्यास इति मं० ॥ ८०३ ॥
उपलक्षणत्वं स्वप्रतिपादकत्वे सति स्वेतर प्रतिपादकत्वम् १
स्वार्थबोध कत्वे सतीतरार्थबोधकत्वम् * २ स्वासम्बन्धिविशेष्य-
केतर भेदबुद्धिजनकत्वम् ३ विशेष्यानन्वयित्वे का दाचित्कत्वे वा
सति व्यावर्तकत्वम्, यथा काकादिकं देवदत्तगृहां देः ॥८०७ ॥
उपलक्षितत्वं चिह्नद्वारा प्रकाशितत्वम् १ स्वसमानाधिकरण-
स्वोत्तरकालीनस्वप्रतियोगिका भाववत्त्वसम्बन्धेन स्त्रसंबन्धित्वं
उपवासः- अनाहारः१ अहोरात्रभोजनाभावः २उपावृत्तस्य पापे-
भ्यो यस्तु वासो गुणैः सह, उपवासः स विज्ञेयः सर्वभोगविवर्जितः
उपशयः - औषधादिजनितसुखानुबन्धः* १ समीपशयनम् ।
उपसर्गः - रोग (विकारः १) पद्रवः ॐ २ धात्वधिकरणसंयोगगो-
चरककालिकधात्वर्थबोधकतावच्छेदकः ३ जन्यबोधविषयीभूत-
क्रियाविशेषविषयकतात्पर्यप्राहकत्वे सति प्राद्यन्यतम इति ग्रं०
 
उपसर्जनत्वं-संमार्गसाधकत्वम् ७१ स्वार्थविशिष्टार्थान्तरबोध
 
-