This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः *
 
[उप] ३७
 

<bold>
उद्बोधकत्वं
 
[त्साहः
 
-</bold> स्मृतिप्रयोजकत्वम् * १ उद्दीपकत्वम् ॥ ७३९ ॥

<bold>
उद्भूतत्वं-</bold> रूपादिविशेषगुणगतो धर्मविशेषः १ प्रकटीभूतत्वम् ।

<bold>
उन्नतिः</bold> समृद्धिः* १पराक्रमदानादि (जन्यं यशः २ ) स्मृतिजन्यो-

<bold>
उपकरणं-</bold> प्रधानसाधकम् १ उपक्रियतेऽनेनेति ।
[त्साहः
<bold>
उपकारः -</bold> सहकारि (लाभ: १)
कारणजन्यः सामर्थ्यविशेष: <error>७४८
</error><fix>॥७४८॥</fix>
<bold>
उपकुर्वाणब्रह्मचारी -</bold> सावधिब्रह्मचर्यवान् १ विवक्ष्यन् (= वि-

वाहं करिष्यमाणः ) गृहीतब्रह्मचर्यव्रतः ॥ ७४९ ॥

<bold>
उपक्रमः-<bold> उपायज्ञानपूर्वकारम्भः * १ तात्पर्यनिर्णायको हेतुविशेषः

<bold>
उपक्रमोपसंहारलिङ्गं</bold> प्रकरणप्रतिपाद्यस्याद्यन्तयोः प्रतिपा-

दनम्, यथा सदेवसौम्येदमग्र आसीदिति ॥ ७५० ॥

<bold>
उपचारः -</bold> शक्यार्थत्यागेनान्यार्थबोधनम् १ अनियतसंबन्धेना.

न्यत्र वृत्तिः, यथा 'मञ्चाः क्रोशन्ती'त्यादौ पुरुषैः समं मञ्चसंब-

न्धोऽनियतः २ परसंतोषार्थ (वचनम् ३) न्यार्थकथनम्<error> ७५३
</error><fix>॥७५३॥</fix>
<bold>
उपजीवकत्वं-</bold> जीवनोपायत्वम् * १ इतरालम्बकत्वम् २ पर-

म्परया साक्षाद्वा कार्यत्वमिति मणिप्रभायाम् ३ उपजीवति

कारणाश्रितं भवतीति व्युत्पत्त्योपजीव
कशब्दः कार्यपरः <error>७५७
</error><fix>॥७५७॥</fix>
<bold>
उपजीव्यत्वं-</bold> परम्परया साक्षाद्वा जनकत्वम् १ उपजीव्यते का-

र्येणाश्रीयते इति व्युत्पत्त्योपजीव्यशब्दः कारणपरः ॥७५९॥

<bold>
उपदेशः -</bold>कृतिविषयः * १ हितकथनम् २ गुप्तवार्ताविष्कार इति

ग्रं० ३ र्मविशिष्टो व्यापारः ४ प्रतिपत्त्यनुकूलव्यापारः<error> ७६४
 
</error><fix>॥७६४॥</fix>