This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः *
 
[उप] ३७
 
उद्बोधकत्वं
 
[त्साहः
 
स्मृतिप्रयोजकत्वम् * १ उद्दीपकत्वम् ॥ ७३९ ॥
उद्भूतत्वं रूपादिविशेषगुणगतो धर्मविशेषः १ प्रकटीभूतत्वम् ।
उन्नतिः समृद्धिः* १पराक्रमदानादि (जन्यं यशः २ ) स्मृतिजन्यो-
उपकरणं प्रधानसाधकम् १ उपक्रियतेऽनेनेति ।
उपकारः - सहकारि (लाभ: १)
कारणजन्यः सामर्थ्यविशेष: ७४८
उपकुर्वाणब्रह्मचारी - सावधिब्रह्मचर्यवान् १ विवक्ष्यन् (= वि-
वाहं करिष्यमाणः ) गृहीतब्रह्मचर्यव्रतः ॥ ७४९ ॥
उपक्रमः- उपायज्ञानपूर्वकारम्भः * १ तात्पर्यनिर्णायको हेतुविशेषः
उपक्रमोपसंहारलिङ्गं प्रकरणप्रतिपाद्यस्याद्यन्तयोः प्रतिपा-
दनम्, यथा सदेवसौम्येदमग्र आसीदिति ॥ ७५० ॥
उपचारः - शक्यार्थत्यागेनान्यार्थबोधनम् १ अनियतसंबन्धेना.
न्यत्र वृत्तिः, यथा 'मञ्चाः क्रोशन्ती'त्यादौ पुरुषैः समं मञ्चसंब-
न्धोऽनियतः २ परसंतोषार्थ (वचनम् ३) न्यार्थकथनम् ७५३
उपजीवकत्वं जीवनोपायत्वम् * १ इतरालम्बकत्वम् २ पर-
म्परया साक्षाद्वा कार्यत्वमिति मणिप्रभायाम् ३ उपजीवति
कारणाश्रितं भवतीति व्युत्पत्त्योपजीव
कशब्दः कार्यपरः ७५७
उपजीव्यत्वं परम्परया साक्षाद्वा जनकत्वम् १ उपजीव्यते का-
र्येणाश्रीयते इति व्युत्पत्त्योपजीव्यशब्दः कारणपरः ॥७५९॥
उपदेशः -कृतिविषयः * १ हितकथनम् २ गुप्तवार्ताविष्कार इति
ग्रं० ३ घर्मविशिष्टो व्यापारः ४ प्रतिपत्त्यनुकूलव्यापारः ७६४