This page has been fully proofread once and needs a second look.

३४ [ईश्व]
 
* सर्वलक्षणसङ्ग्रहः *
 
<bold>इतिकर्तव्यता-</bold> कर्तव्यप्रकारः * १ कथम्भावाकाङ्क्षापूरकः ।

<bold>
इतिहासः-</bold> पुरावृत्तप्रकाशको ग्रन्थविशेषः? धर्मार्थकाममोक्षा-

णामुपदेशसमन्वितम्, पूर्ववृत्तकथायुक्तमितिहासं प्रचक्षते <error>६६२
</error><fix>॥६६२॥</fix>
<bold>
इदन्ता -</bold> सन्निकृष्टवाचित्वम् ॐ १ प्रत्यक्षबुद्धिविषयत्वम् ॥ ६६४ ॥

<bold>
इन्द्रजालं-</bold> प्रत्यक्षतो मिथ्यार्थप्रदर्शनम् १ मन्त्रौषधादिनाद्भुत-

वस्तुदर्शकव्यापार इति ग्रं० ॥ ६६६ ॥
 

 
<bold>
इन्द्रियं-</bold> सुखदुःखानुकूलसाक्षात्कार प्रमितिकिमाक्रियान्यतरकरणम-

तीन्द्रियम् । आलोकादावतिव्याप्तिवारणायातीन्द्रियमिति,

धर्मादावतिव्याप्तिवारणायाद्यविशेषणम्, अनुमित्यादिकरणेति-

व्याप्तिवारणाय साक्षादिति १ शब्दे[^१]तरोद्भूतविशेषगुणानाश्र-

यत्वे सति ज्ञानकारणमनःसंयोगाश्रयः । आत्मन्यतिव्याप्तिवा-

रणाय सत्यन्तम्, कालादावतिव्याप्तिवारणाय विशेष्यम् <error>६७०
</error><fix>॥६७०॥</fix>
<bold>
इष्टं-</bold> इच्छाविषयः *१ धर्मज्ञापकम् २ पूजनयोग्यत्वम् ॥६७४ ॥

<bold>
ईर्ष्या --</bold> अनिष्टानुपेक्षम् १ परसम्पदुत्कर्षासहिष्णुतेति ग्रं० २
 

विरोधि र्मारोपानुकूलव्यापारजनकश्चित्तवृत्तिविशेषः ॥ ६७६॥

<bold>
ईश्वरः -</bold> नित्यज्ञानाधिकरणमिति नै० १ क्लेशकर्मविपाकाशयै-

रपरामृष्टः पुरुषविशेष: २ त्रैकालिकबन्धशून्यः । बन्धशून्य-

मात्रोक्तौ मुक्तप्रकृतिलयेष्वतिव्याप्तिरिति त्रैकालिकत्वं बन्ध-

 
[^१
शब्देतरे ये उद्भूत विशेषगुणाः घटनिष्ठरूपादयस्तदनाश्रयत्वं ज्ञा-

नस्य कारणभूतो या मनःसंयोगस्तः । तदाश्रयत्वञ्च चक्षुरादावस्तीत्यर्थः ।
 
]