This page has not been fully proofread.

३४ [ईश्व]
 
* सर्वलक्षणसङ्ग्रहः *
 
इतिकर्तव्यता- कर्तव्यप्रकारः * १ कथम्भावाकाङ्क्षापूरकः ।
इतिहासः- पुरात्तप्रकाशको ग्रन्थविशेषः? धर्मार्थकाममोक्षा-
णामुपदेशसमन्वितम्, पूर्ववृत्तकथायुक्तमितिहासं प्रचक्षते ६६२
इदन्ता - सन्निकृष्टवाचित्वम् ॐ १ प्रत्यक्षबुद्धिविषयत्वम् ॥ ६६४ ॥
इन्द्रजालं- प्रत्यक्षतो मिथ्यार्थप्रदर्शनम् १ मन्त्रौषधादिनाद्भुत-
वस्तुदशकव्यापार इति ग्रं० ॥ ६६६ ॥
 
इन्द्रियं सुखदुःखानुकूलसाक्षात्कार प्रमितिकिमान्यतरकरणम-
तीन्द्रियम् । आलोकादावतिव्याप्तिवारणायातीन्द्रियमिति,
धर्मादावतिव्याप्तिवारणायाद्यविशेषणम्, अनुमित्यादिकरणेति-
व्याप्तिवारणाय साक्षादिति १ शब्देतरोद्भूतविशेषगुणानाश्र-
यत्वे सति ज्ञानकारणमनःसंयोगाश्रयः । आत्मन्यतिव्याप्तिवा-
रणाय सत्यन्तम्, कालादावतिव्याप्तिवारणाय विशेष्यम् ६७०
इष्टं इच्छाविषयः छ १ धर्मज्ञापकम् २ पूजनयोग्यत्वम् ॥६७४ ॥
ईर्ष्या - अनिष्टानुपेक्षगम् १ परसम्पदुत्कर्षासहिष्णुतेति ग्रं० २
 
विरोधि वर्मारोपानुकूलव्यापारजनकश्चित्तवृत्तिविशेषः ॥ ६७६॥
ईश्वरः - नित्यज्ञानाधिकरणमिति नै० १ क्लेशकर्मविपाकाशयै-
रपरामृष्टः पुरुषविशेष: २ त्रैकालिकबन्धशून्यः । बन्धशून्य-
मात्रोक्तौ मुक्तप्रकृतिलयेष्वतिव्याप्तिरिति त्रैकालिकत्वं बन्ध-
शब्देतरे ये उद्भूत विशेषगुणाः घटनिष्ठरूपादयस्तदनाश्रयत्वं ज्ञा-
नस्य कारणभूतो या मनःसंयोगस्तः । श्रयत्वञ्च चक्षुरादावस्तीत्यर्थः ।