This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः *
 
[इडा] ३३
 
॥६३९॥
 
<bold>आश्रयासिद्धत्वं-</bold>पक्षतावच्छेदकाभाववत्पक्षकत्वम्
व॥६३९॥
<bold>
आसक्तिः -</bold> विषयान्तरपरिहारेणै कविषयावलम्बनम् ॥६४०॥

<bold>
आसत्तिः -</bold> यत्पदार्थेन सह यत्पदार्थस्यान्वयोपेक्षितस्तयोः पद-

योरव्यवधानम्१ शक्तिलक्षणान्यतरसंबन्धेनाव्यवधानेन पदज-

न्यपदार्थोपस्थितिः । प्रमाणान्तरजस्न्यपदार्थोपस्थितिवारणाय

<bold>
आसनफलं-</bold>द्वन्द्वानभिघातः ।
 
[पदजन्येति
 
॥६४५ ॥
 

<bold>
आसनं -</bold> स्थिरसुखम् १ सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्त-

नम्, आसनं तद्विजानीयादन्यत्सुखविनाशनम्
॥६४५॥
<bold>
आसनोपायः</bold> प्रयत्नशैथिल्यम् १ अनन्तसमापत्तिर्वा ॥६४७ ॥

<bold>
आस्तिकत्वं-</bold>परलोकसत्ताविषयकाबाधितज्ञानवत्त्वम् १ शा-

स्त्राद्युक्तविषयविषयकविश्वासवत्त्वमिति ग्रं० ॥ ६४९

<bold>
आहार्यज्ञानं-</bold>बाधकालीनेच्छाजन्यं ज्ञानम् यथा माणवके

प्रेम्णा चिन्तामणिबुद्धिः ॥ ६५० ॥
 

 

<bold>
आहुतिः -</bold> देवोद्देशेन मन्त्रेणाग्नौ हविःप्रक्षेपः ॥ ६५१ ॥
 
-
 

<bold>*इ*</bold>
[शेषः
 

 

 

 

<bold>
इङ्गितं-</bold> मनोभिप्रायसूचक भ्रूक्षेपकटाक्षवीक्षणादिरूपकायचेष्टावि-

<bold>
इच्छा-</bold> इयं मे स्यादित्याशा विशेषः १इष्टसाधनताज्ञानजन्योभि

लाष इति पंग्रं० २ इच्छामीत्यनुभवविषयवृत्तिगुणत्वव्याप्यजाति-

मती ३ यत्नसंस्कारभिन्नत्वे सति संबन्धानवच्छिन्न प्रकारताकत्वं

<bold>
इडानाडी-</bold>वामनासिकास्था ( चन्द्र ) नाडी ॥ ६५८ ॥