This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः *
 
[इडा] ३३
 
॥६३९॥
 
आश्रयासिद्धत्वं-पक्षतावच्छेदकाभाववत्पक्षकत्वम्
आसक्तिः - विषयान्तरपरिहारेणै कविषयावलम्बनम् ॥६४०॥
आसत्तिः - यत्पदार्थेन सह यत्पदार्थस्यान्वयोपेक्षितस्तयोः पद-
योरव्यवधानम्१ शक्तिलक्षणान्यतरसंबन्धेनाव्यवधानेन पदज-
न्यपदार्थोपस्थितिः । प्रमाणान्तरजस्यपदार्थोपस्थितिवारणाय
आसनफलं-द्वन्द्वानभिघातः ।
 
[पदजन्येति
 
॥६४५ ॥
 
आसनं - स्थिरसुखम् १ सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्त-
नम्, आसनं तद्विजानीयादन्यत्सुखविनाशनम्
आसनोपायः प्रयत्नशैथिल्यम् १ अनन्तसमापत्तिर्वा ॥६४७ ॥
आस्तिकत्वं-परलोकसत्ताविषयकाबाधितज्ञानवत्त्वम् १ शा-
स्त्राद्युक्तविषयविषयकविश्वासवत्त्वमिति ग्रं० ॥ ६४९
आहार्यज्ञानं-बाधकालीनेच्छाजन्यं ज्ञानम् यथा माणवके
प्रेम्णा चिन्तामणिबुद्धिः ॥ ६५० ॥
 

 
आहुतिः - देवोद्देशेन मन्त्रेणानौ हविःप्रक्षेपः ॥ ६५१ ॥
 
-
 
[शेषः
 

 

 

 
इङ्गितं मनोभिप्रायसूचक भ्रूक्षेपकटाक्षवीक्षणादिरूपकायचेष्टावि-
इच्छा इयं मे स्यादित्याशा विशेषः १इष्टसाधनताज्ञानजन्योभि
लाष इति पं० २ इच्छामीत्यनुभवविषयवृत्तिगुणत्वव्याप्यजाति-
मती ३ यत्नसंस्कारभिन्नत्वे सति संबन्धानवच्छिन्न प्रकारताकत्वं
इडानाडी-वामनासिकास्था ( चन्द्र ) नाडी ॥ ६५८ ॥