This page has been fully proofread once and needs a second look.


रूप आत्मा २ निरुक्तात्मप्रतिबिम्बिता वृत्तिर्वा ३ निरुपाधिकेष्टत्व
<bold>आनन्दमयकोशः-</bold> सुखाकारवृत्तिमदन्तःकरणमज्ञानपर्यन्तम् १
आनन्दप्रचु (रः कोशः २ ) रत्वे सति कोशवत्प्रत्यच्केतनाच्छादकः
<bold>आनुपूर्वी-</bold>तदुत्तरत्वविशिष्टतदुत्तरत्वादि २ तदुच्चारणानन्त-
रोच्चारणविषयत्वम् ॥ ५९४ ॥
 
<bold>आनुषङ्गिकं-</bold> उद्देश्यान्तरप्रवृत्तस्य तत्कर्मनान्तरीयकतया प्राप्तम्
<bold>आपत्तिः-</bold> सम्यग्वर्त्तनोपायानुपलम्भः ॥ ५९६ ॥
<bold>आपातत्वं-</bold>संशयादिग्रस्तत्वम् १ अविचारितवाक्यजन्यत्वं वा ।
<bold>आपातज्ञानं-</bold>अज्ञाननिवृत्तावसमर्थ ज्ञानम् १ अप्रामाण्यशङ्कास्पदज्ञानं
<bold>आतत्वं-</bold> प्रयोगहेतुभूतयथार्थज्ञानवत्त्वम् १ लोकवेदसाधारणं
प्रतारणाद्यजन्यहिताहितोपदेशकर्तृत्वे सति तद्भिन्नोपदेशाकर्तृ-
त्वमिति ग्रं० २ रागादिरहितत्वे सति सकलवस्तुविषयकानुभव-
<bold>आम्नायः-</bold>गुरुपरम्परागतोपदेशः । [प्रयोज्यनिश्चयवत्त्वं
<bold>आयु:-</bold> जीवितावच्छिन्नः कालः ॥ ६०५ ॥
<bold>आयुर्वेदः -</bold> आयुर्हिताहितं व्याघेर्निदानं शमनं तथा,
विद्यते यत्र विद्वद्भिः स आयुर्वेद उच्यते ॥ ६०६ ॥
<bold>आरम्भः -</bold> आद्यप्रवृत्तिः १ प्राथमिकव्यापारोपक्रम इति ग्रं
आरम्भकं समवायिकारणम् १ अनेककारणसंयोगवत्त्वे सति का-
<bold>आरम्भकार्य-</bold> स्वभिन्नत्वे सति समवेतम् । [र्यजनकं
<bold>आरादुपकार्यङ्गं-</bold> 'फलोपकार्यङ्ग' वदस्य लक्षणमनुसंधेयम् ।