This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः
 
[आत्मा] २९
 

 
च शास्त्रार्थमाचारे स्थापयत्यपि, स्वयमप्याचरेद्यस्तु स

आचार्य इति स्मृतः ३ स त्रिविधः - चोदको दर्शयेन्मार्ग

बोधकः स्थानमाचरेत्, मोक्षदस्तु परं तत्त्वं यज्ज्ञात्वा परमश्नुते ।

<bold>
आशा-</bold> निकृष्टस्य भृत्यादेः कृत्यादौ प्रवृत्त्यर्थव्यापारा: १

वक्रनुमतत्वे सति कर्तुरनिष्टहेतुत्वमाज्ञात्वम् ॥ ५५३ ॥

<bold>
अज्ञाकारी-</bold> आज्ञानुसारेण कर्मकर्ता ॥ ५५४ ॥

<bold>
आशाभङ्गः-</bold> आदेशान्यथाकरणम् १ स्वविषयेषु प्रचाराभावः ।

<bold>
आडम्बरः-</bold> परवञ्चनार्थकृत्रिमबहुविधचेष्टितम् ॥ ५५७ ॥

<bold>
आत्मख्यातिः -</bold> विज्ञानात्मन एवाध्यस्तपदार्थाकारेण भानम् ।

<bold>
आत्मघाती-</bold> व्यापादयेद्वृथात्मानं स्वयं योग्नयुदकादिभिः,

अवैधेनैव मार्गेण आत्मघाती स उच्यते ॥ ५५९ ॥
 
[हेतुर्मदः
 

 
आत्मज्ञानं प्रत्यगात्मनि देहाद्यतिरिक्तत्वप्रकारको देहादौ वा

प्रत्यगात्मातिरिक्तत्वप्रकारको निश्चयः ।

<bold>
आत्ममदः -</bold> अहङ्कारभरितस्य विद्यादिभिर्मम समः को वेतिप्रज्ञा-
आत्मा -

<bold>आत्मा -</bold>
चैतन्याश्रयः १ अमूर्तसमवेतद्रव्यत्वापरजातिमानिति

नै० २ सर्वदेहेषु पूर्ण: ३ अहंप्रत्ययविषयः ४ स्वयंप्रतीतिविषय-

त्वमात्मत्वम् ५ परमप्रेमास्पदत्वमिति वै ० ६ यच्चाप्नोति यदादत्ते

यञ्चात्तिविषयानिह यच्चास्य संततो भावस्तस्मादात्मेति कथ्यते

<bold>
आत्माश्रयः-</bold> स्वग्रहसापेक्षग्रहकः १ स्त्रापेक्षापादक प्रसङ्गः, यथा
 

 
"