This page has been fully proofread once and needs a second look.



<bold>असूया-</bold>गुणेषु दोषाविष्करणम् १परकीयगुणेषु दोषारोप इति ग्रं०
<bold>असंसक्तिज्ञानभूमिका-</bold>सविकल्पकसमाध्यभ्यासेन निरुद्धे
मनसि निर्विकल्पकसमाध्यवस्था ॥ ५०० ॥
 
<bold>अस्तित्वम्-</bold> सत्तावत्वम् १ कालसम्बन्धित्वं वा ॥ ५०२ ॥
<bold>अस्तेयं-</bold> परस्वानपहरणम् १ अदत्तादानरूपपरस्वहरणराहित्यं
<bold>अस्त्रं -</bold> रिपुकर्तृकप्रहारसाधनम् १ मन्त्राभिमन्त्रितत्वमस्त्रत्वम् ।
<bold>अस्पष्टब्रह्मलिङ्गकत्वं-</bold>संभाव्यमानस्वारस्यजीवलिङ्गाभिभूत-
ब्रह्मलिङ्गकत्वम्, यथा सर्वत्र प्रसिद्धाधिकरणे जीवे विषये स्वरसानि
मनोमयत्वादीनि सत्यकामत्वादिब्रह्मलिङ्गान्यभिभवन्तीति ।
<bold>अस्मिता-</bold>बुद्ध्यादावभेदाभिमानः १ अहङ्कार (स्य सूक्ष्मा-
वस्था २) धर्म्यध्यासः ३ सामान्याहङ्कारत्वमस्मितात्वम् <error>५११</error><fix>॥५११॥</fix>
<bold>अहङ्कारः-</bold> अभिमानात्मिकान्तःकरणवृत्तिः १ अह (मितिक्रिय-
तेऽनेनेति २) मुत्कृष्टेत्याकारकसंस्कारः ॥ ५१४ ॥
<bold>अहङ्ग्रहोपासना-</bold>उपास्यस्वरूपस्य स्वाभेदेन चिन्तनम्<error>५१५</error><fix>॥५१५॥</fix>
<bold>अहिंसा-</bold>वाङ्भनः कायैः सर्वभूतानामनभिद्रोहः १ प्राणवियोगप्र-
योजकव्यापारराहित्यमिति ग्रं० २ अशास्त्रीयप्राणिपीडनाभावः
<bold>*आ*</bold>
<bold>आकाङ्क्षा-</bold> वाक्यसमयग्राहिका १ अन्वयानुपपत्तिरिति ग्रं० २
येन पदेन विना यस्य पदस्यान्वयबोधाजनकत्वं तेन तस्य
समभिव्याहारः, यथा द्वारमित्यनेन पिधेहीत्यादेः ३ तादृश-