This page has been fully proofread once and needs a second look.

* सवलक्षणसङ्ग्रहः *
 
[आकां] २७
 

 
<bold>
असूया-</bold>गुणेषु दोषाविष्करणम् १परकीयगुणेषु दोषारोप इति ग्रं०

<bold>
असंसक्तिशाज्ञानभूमिका-</bold>सविकल्पकसमाध्यभ्यासेन निरुद्धे

मनसि निर्विकल्पकसमाध्यवस्था ॥ ५०० ॥
 

 
<bold>
अस्तित्वम्-</bold> सत्तावत्वम् १ कालसम्बन्धित्वं वा ॥ ५०२ ॥

<bold>
अस्तेयं-</bold> परस्वानपहरणम् १ अदत्तादानरूपपरस्वहरणराहित्यं

<bold>
अस्त्रं -</bold> रिपुकर्तृकप्रहारसाधनम् १ मन्त्राभिमन्त्रितत्वमस्त्रत्वम् ।

<bold>
अस्पष्टब्रह्मलिङ्गकत्वं-</bold>संभाव्यमानस्वारस्यजीवलिङ्गाभिभूत-

ब्रह्मलिङ्गकत्वम्, यथा सर्वत्र प्रसिद्धाधिकरणे जीवे विषये स्वरसा-
नि
मनोमयत्वादीनि सत्यकामत्वादिब्रह्मलिङ्गान्यभिभवन्तीति ।

<bold>
अस्मिता-</bold>बुद्ध्यादावभेदाभिमानः १ अहङ्कार (स्य सूक्ष्मा-

वस्था २) धर्म्यध्यासः ३ सामान्याहङ्कारत्वमस्मितात्वम् ५११

<bold>
अहङ्कारः-</bold> अभिमानात्मिकान्तःकरणवृत्तिः १ अह (मितिक्रिय-

तेऽनेनेति २) मुत्कृष्टेत्याकारकसंस्कारः ॥ ५१४ ॥

<bold>
अहङ्ग्रहोपासना-</bold>उपास्यस्वरूपस्य स्वाभेदेन चिन्तनम्५१५

<bold>
अहिंसा-</bold>वाङ्नः कायैः सर्वभूतानामनभिद्रोहः १ प्राणवियोगप्र-

योजकव्यापारराहित्यमिति ग्रं० २ अशास्त्रीयप्राणिपीडनाभावः

<bold>*

 
*</bold>
<bold>
आकाङ्क्षा-</bold> वाक्यसमयग्राहिका १ अन्वयानुपपत्तिरिति ग्रं० २

येन पदेन विना यस्य पदस्यान्वयबोधाजनकत्वं तेन तस्य

समभिव्याहारः, यथा द्वारमित्यनेन पिधेहीत्यादेः ३ तादृश-
**