This page has not been fully proofread.

* सवलक्षणसङ्ग्रहः *
 
[आकां] २७
 
असूया-गुणेषु दोषाविष्करणम् १परकीयगुणेषु दोषारोप इति ग्रं०
असंसक्तिशानभूमिका-सविकल्पकसमाध्यभ्यासेन निरुद्धे
मनसि निर्विकल्पकसमाध्यवस्था ॥ ५०० ॥
 
अस्तित्वम् सत्तावत्वम् १ कालसम्बन्धित्वं वा ॥ ५०२ ॥
अस्तेयं परस्वानपहरणम् १ अदत्तादानरूपपरस्वहरणराहित्यं
अस्त्रं - रिपुकर्तृकप्रहारसाधनम् १ मन्त्राभिमन्त्रितत्वमस्त्रत्वम् ।
अस्पष्टब्रह्मलिङ्गकत्वं-संभाव्यमानस्वारस्यजीवलिङ्गाभिभूत-
ब्रह्मलिङ्गकत्वम्, यथा सर्वत्र प्रसिद्धाधिकरणे जीवे विषये स्वरसा-
नि मनोमयत्वादीनि सत्यकामत्वादिब्रह्मलिङ्गान्यभिभवन्तीति ।
अस्मिता-बुद्ध्यादावभेदाभिमानः १ अहङ्कार (स्य सूक्ष्मा-
वस्था २) धर्म्यध्यासः ३ सामान्याहङ्कारत्वमस्मितात्वम् ५११
अहङ्कारः अभिमानात्मिकान्तःकरणवृत्तिः १ अह (मितिक्रिय-
तेऽनेनेति २) मुत्कृष्टेत्याकारकसंस्कारः ॥ ५१४ ॥
अहङ्ग्रहोपासना-उपास्यस्वरूपस्य स्वाभेदेन चिन्तनम्५१५
अहिंसा-वाङ्मनः कायैः सर्वभूतानामनभिद्रोहः १ प्राणवियोगप्र-
योजकव्यापारराहित्यमिति ग्रं० २ अशास्त्रीयप्राणिपीडनाभावः

 
आकाङ्क्षा वाक्यसमयग्राहिका १ अन्वयानुपपत्तिरिति ग्रं० २
येन पदेन विना यस्य पदस्यान्वयबोधाजनकत्वं तेन तस्य
समभिव्याहारः, यथा द्वारमित्यनेन पिधेहीत्यादेः ३ तादृश-
**