This page has not been fully proofread.

२६ [असा].
 
* सवेलक्षणसङ्ग्रहः *
<bold>असत्ख्यातिः-</bold> असत (शून्यस्य) एवाध्यस्तपदार्थाकारेण भानं

असत्यत्वं प्रागभावप्रतियोगित्वम्१वस्तुस्वभावविरोधिधर्मः ।

असत्वं सर्वदेशकालसंबन्धिनिषेधप्रतियोगित्वम् १ सद्वैलचण्ये

सत्यपरोक्षप्रतीत्यविषयत्वमिति ग्रं० २ सत्तास्फूर्तिशून्यत्वम् ।

<bold>
असदावरणं-</bold>(कूटस्थः) नास्तीत्यसत्त्वप्रयोज की भूतमावरणम् ।

असदुत्तरम् दुष्टमुत्तरम् १ उत्तरव्याघातकमुत्तरमिति ग्रं०

<bold>
असभ्यः -</bold> सभायामनुपयुक्तः ॥ ४८३ ॥

<bold>
असमवायिकारणं-</bold>कार्यकारणभावसंबन्ध्येकाथसमवेतकारणं

<bold>
असंबद्धः -</bold> संबन्धरहितः १ परस्परम (न्वयाभावः २) नन्वितः ।

<bold>
असंभवः-</bold>अनुपपन्नः४१लक्ष्यमात्रा(वर्तनम्२ ) वृत्तित्वम्, यथा

गोरेकशफवत्त्वलक्षणं लक्ष्यगोमात्रावृत्ति, गोर्द्विशफवत्त्वात् ३

लक्ष्यतावच्छेदकव्यापकीभूताभावप्रतियोगित्वम् ॥ ४९१ ॥

असम्भावना बलवन्निषेधकोटिकः संशयः ॥ ४९२ ॥

असाधारणकारणत्वं कार्यत्वातिरिक्तधर्मावच्छिन्नकार्यता-

निरूपितकारणताशालित्वम् १ कार्यतावच्छेदकावच्छिन्नकार्या-

नुत्पादकत्वे सति कार्यविशेषोत्पादकत्वमिति ग्रं० ॥ ४९४ ॥

<bold>
असाधारणधर्मत्वम् -</bold> तद्वृत्तित्वे सति तदितरावृत्तित्वम् १

लक्ष्यतावच्छेदक (समनियतत्वम् २) व्यापकत्वे सति लक्ष्यता-

वच्छेदकव्याप्यत्वम् । अव्यायसंभवग्रस्तयोर्वारणाय सत्य-

न्तम्, अतिव्याप्तस्य वारणाय विशेष्यम् ॥ ४९७ ॥
 

 
H