This page has not been fully proofread.

२६ [असा].
 
* सवेलक्षणसङ्ग्रहः *
असत्ख्यातिः-असत (शून्यस्य) एवाध्यस्तपदार्थाकारेण भानं
असत्यत्वं प्रागभावप्रतियोगित्वम्१वस्तुस्वभावविरोधिधर्मः ।
असत्वं सर्वदेशकालसंबन्धिनिषेधप्रतियोगित्वम् १ सद्वैलचण्ये
सत्यपरोक्षप्रतीत्यविषयत्वमिति ग्रं० २ सत्तास्फूर्तिशून्यत्वम् ।
असदावरणं-(कूटस्थः) नास्तीत्यसत्त्वप्रयोज की भूतमावरणम् ।
असदुत्तरम् दुष्टमुत्तरम् १ उत्तरव्याघातकमुत्तरमिति ग्रं०
असभ्यः - सभायामनुपयुक्तः ॥ ४८३ ॥
असमवायिकारणं-कार्यकारणभावसंबन्ध्येकाथसमवेतकारणं
असंबद्धः - संबन्धरहितः १ परस्परम (न्वयाभावः २) नन्वितः ।
असंभवः-अनुपपन्नः४१लक्ष्यमात्रा(वर्तनम्२ ) वृत्तित्वम्, यथा
गोरेकशफवत्त्वलक्षणं लक्ष्यगोमात्रावृत्ति, गोर्द्विशफवत्त्वात् ३
लक्ष्यतावच्छेदकव्यापकीभूताभावप्रतियोगित्वम् ॥ ४९१ ॥
असम्भावना बलवन्निषेधकोटिकः संशयः ॥ ४९२ ॥
असाधारणकारणत्वं कार्यत्वातिरिक्तधर्मावच्छिन्नकार्यता-
निरूपितकारणताशालित्वम् १ कार्यतावच्छेदकावच्छिन्नकार्या-
नुत्पादकत्वे सति कार्यविशेषोत्पादकत्वमिति ग्रं० ॥ ४९४ ॥
असाधारणधर्मत्वम् - तद्वृत्तित्वे सति तदितरावृत्तित्वम् १
लक्ष्यतावच्छेदक (समनियतत्वम् २) व्यापकत्वे सति लक्ष्यता-
वच्छेदकव्याप्यत्वम् । अव्यायसंभवग्रस्तयोर्वारणाय सत्य-
न्तम्, अतिव्याप्तस्य वारणाय विशेष्यम् ॥ ४९७ ॥
 
H