This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः *
 
[अश्र] २५
 
<bold>अव्यवहितत्वं-</bold> साक्षात्संबन्धः १व्यवधानाभाववत्त्वम्॥ ४५४॥

<bold>
अव्याप्तिः -</bold> लक्ष्यैकदेशावृत्तित्वम्, यथा गोः कपिलत्वं लक्षणं

श्वेतगवादौ लक्ष्यैकदेशेऽवृत्ति १ लक्ष्यतावच्छेदकसमानाधिक-

रणात्यन्ताभावप्रतियोगित्वम् ॥ ४५६ ॥

<bold>
अव्याप्यः -</bold> व्याप्तिशून्यः १ व्याप्याभाववद्वृत्तिर्वा ॥ ४५८ ॥

<bold>
अव्याप्यवृत्तित्वं-</bold> स्वात्यन्ताभावसमानाधिकरणत्वम्
 
१स्त्रावाधि-

करणनिष्ठात्यन्ताभावप्रतियोगित्वमिति ग्रं० ॥ ४६० ॥
 
G
 

<bold>
अव्युत्पन्नत्वं-</bold> सिद्धिशून्यत्वम् * १ पदज्ञानरहितत्वम् ॥ ४६२॥

<bold>
अशुचित्वं -</bold> वैदिककर्मानर्हत्वप्रयोजको धर्मविशेषः ॥४६३॥

<bold>
अशुद्धः -</bold> निषिद्धानुष्टाठाता * १ व्याकरणादिलक्षणाननुसारी ।

<bold>
अशुद्धि: -</bold> कर्तृद्रव्यादेः स्पर्शनाद्यनर्हतापादको दोषविशेषः ।

<bold>
अशुभवासना-</bold> निषिद्धनिषिद्धसमविद्या कर्मतत्संस्कार तत्फलसं-

स्काररूपा । <bold>निषिद्धा विद्या</bold> स्त्रीचिन्तनादिरूपा, <bold>निषिद्ध-
</bold>
<bold>
समा</bold> यदृच्छया काकविडालाद्यवेक्षणात्मिका, <bold>निषिद्धं कर्म </bold>

लाण्डुभक्षणादि, <bold>निषिद्धसमं</bold> तृणच्छेदनादि, एतेषां चतुर्णां सं-

स्कारास्तथैतेषां ततोपि पूर्वजन्मकृतानां यानि जन्मान्तरे फलानि

नरकाद्याप्तिरूपाणि तेषां च संस्कारा इत्यशुभवासनोदाहरणानि

<bold>
अशेषः -</bold> शेषहीनः १ विधेयशून्यावृत्च्युद्देश्यतावच्छेदकः ॥४६९ ॥

<bold>
अशौचं-</bold> शरीरमनसोर्मालिन्यम् १ विद्दिहितकर्मानधिकारित्वसंपादकं

<bold>
अश्रद्धा-</bold> गुरुशास्त्रोपदिष्टेऽर्थे इदमेवं न भवत्येवेति विपर्ययबुद्धिः
 
प-
SKEE