This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः *
 
[अश्र] २५
 
अव्यवहितत्वं साक्षात्संबन्धः १व्यवधानाभाववत्त्वम्॥ ४५४॥
अव्याप्तिः - लक्ष्यैकदेशावृत्तित्वम्, यथा गोः कपिलत्वं लक्षणं
श्वेतगवादौ लक्ष्यैकदेशेऽवृत्ति १ लक्ष्यतावच्छेदकसमानाधिक-
रणात्यन्ताभावप्रतियोगित्वम् ॥ ४५६ ॥
अव्याप्यः - व्याप्तिशून्यः १ व्याप्याभाववद्वृत्तिर्वा ॥ ४५८ ॥
अव्याप्यवृत्तित्वं स्वात्यन्ताभावसमानाधिकरणत्वम्
 
१स्त्राधि-
करणनिष्ठात्यन्ताभावप्रतियोगित्वमिति ग्रं० ॥ ४६० ॥
 
G
 
अव्युत्पन्नत्वं सिद्धिशून्यत्वम् * १ पदज्ञानरहितत्वम् ॥ ४६२॥
अशुचित्वं - वैदिककर्मानर्हत्वप्रयोजको धर्मविशेषः ॥४६३॥
अशुद्धः - निषिद्धानुष्टाता * १ व्याकरणादिलक्षणाननुसारी ।
अशुद्धि: - कर्तृद्रव्यादेः स्पर्शनाद्यनर्हतापादको दोषविशेषः ।
अशुभवासना निषिद्धनिषिद्धसमविद्या कर्मतत्संस्कार तत्फलसं-
स्काररूपा । निषिद्धा विद्या स्त्रीचिन्तनादिरूपा, निषिद्ध-
समा यदृच्छया काकविडालाद्यवेक्षणात्मिका, निषिद्धं कर्म प
लाण्डुभक्षणादि, निषिद्धसमं तृणच्छेदनादि, एतेषां चतुर्णां सं-
स्कारास्तथैतेषां ततोपि पूर्वजन्मकृतानां यानि जन्मान्तरे फलानि
नरकाद्याप्तिरूपाणि तेषां च संस्कारा इत्यशुभवासनोदाहरणानि
अशेषः - शेषहीनः १ विधेयशून्यावृत्च्युद्देश्यतावच्छेदकः ॥४६९ ॥
अशौचं- शरीरमनसोर्मालिन्यम् १ विद्दितकर्मानधिकारित्वसंपादकं
अश्रद्धा- गुरुशास्त्रोपदिष्टेऽर्थे इदमेवं न भवत्येवेति विपर्ययबुद्धिः
 
प-
SKEE