This page has been fully proofread once and needs a second look.

२४ [अव्य]
 
* सर्वलक्षणसङ्ग्रहः *
 

 
नानाच्छिशुत्वम् २ पञ्चवर्षान्तं कौमारम् ३ दशवर्षान्तं

बाल्यम् ४ आपञ्चदशाब्दात्कैशोरम् ५ षोडशाब्दात्परं

यौवनम् ६ षष्टिवर्षात्परं वृद्धत्वम् ।
 
[प्यत्रपठनीयं
 

 

<bold>
अवस्थाज्ञानं-</bold> विषयचैतन्यावर कमज्ञानम्१ 'तूलाविद्या'लक्षणम-

<bold>
अवान्तरत्वं</bold> व्याप्यत्वम् १ प्रधानान्तःपातित्वम् ॥ ४३३ ॥

<bold>
अवान्तर तात्पर्य -</bold> मुख्यतात्पर्यविषयसिद्धावुपायभूतार्थे तात्पर्य

<bold>
अवान्तरप्रकरणं-</bold>अङ्गभावनासम्बन्धिप्रकरणम् ॥ ४३५ ॥

<bold>
अवान्तरप्रलयः-</bold> 'नैमित्तिकप्रलय' वदस्य लक्षणमनुसंधेयम् ।

<bold>
अवान्तरवाक्यं-</bold> तत्त्वंपदार्थान्यतरबोधवाक्यम् ॥ ४३७ ॥

<bold>
अवाप्तिः -</bold> संयोगविशेषः १ स्वाधीनोच्चारणक्षम (= योग्य ) त्वम्

<bold>
अविगीतत्वं-</bold> वेदानिषिद्धत्वम् १ बलवदनिष्टाननुबन्धित्व वा ।

<bold>
अविद्या</bold> स्वाश्रयव्यामोह (हेतुः १)करी* २ रजस्तमोऽभिभूत-

मलिनसत्त्वप्रधाना * ३ असत्प्रकाशनशक्तिः ॥ ४४४ ॥

<bold>
अविद्यावृत्तिः-</bold> साक्षादविद्योपादाना वृत्तिः ॥ ४४५ ॥

<bold>
अविनाभावः-</bold> व्याप्यनिष्टव्यापकनिरूपितधर्मः ॥ ४४६ ॥

<bold>
अवीतानुमानं-</bold>निषेधमुखेन प्रवर्त्तमानं सन्निषेधकम् ॥ ४४७ ॥

<bold>
अव्यभिचारित्वं-</bold> साध्यवदन्यावृत्तित्वम् १ साधनसमानाधि-

करणात्यन्ताभावाप्रतियोगित्वमिति ग्रं० ॥ ४४९ ॥

<bold>
अव्ययः -</bold> आद्यन्तशून्यः १ न विद्यते व्ययो विनाशो धर्मतः स्व-

रूपतोऽवयवतो यस्य सः ।
 
[कसमासः
 

 
<bold>
अव्ययीभावसमासः -</bold> नियमतः पूर्वपदार्थविशेष्यकबोधजन-