This page has been fully proofread once and needs a second look.

दिवाऽभुजानस्य देवदत्तस्य रात्रिभोजनं विनानुपपद्यमान-
पीनत्वज्ञानात्तदुपपादकरात्रिभोजनकल्पनम् २ सम्पाद्यज्ञान-
प्रभवं सम्पादकज्ञानम् ३ अर्थस्य पदार्थविशेषस्य आपत्ति-
र्ज्ञानमिति तत्पुरुषसमासेनार्थापत्तिशब्दः प्रमापरः, अर्थस्या-
पत्तिर्यस्मादिति बहुव्रीहिणा प्रमाणपरः ॥ ३७७ ॥
<bold>अर्थापत्तिप्रमाणं-</bold> उपपादक (प्रमाकरणम् १ ) कल्पनाहेतुभूतो-
अर्थार्थी- अपूर्वैश्वर्यकामः [पपाद्यज्ञानं
<bold>अर्पणं -</bold> निवेशनम् १ स्वत्वत्यागानुकूलव्यापारो वा ॥ ३८२ ॥
<bold>अलङ्कारः-</bold> शब्दार्थयोः शोभाकारकः १ काव्यत्वाव्यापकत्वे सति
शब्दार्थगतसौन्दर्यातिरेकजनकरसाद्युपकारकशब्दार्थधर्मः ।
<bold>अलाभविजयः-</bold>अलाभेऽपि लाभवत्संतोष इति जैनाः <error>३८५</error><fix>॥३८५॥</fix>
<bold>अलीकत्वम्-</bold> ज्ञानाविषयत्वम् १ सर्वदेशकालनिष्ठात्यन्ताभाव-
प्रतियोगित्वे सति सत्तादात्म्यशून्यत्वमिति ग्रं० २ तादृशप्र-
तियोगिताविशिष्टत्वे सत्यप्रतीयमानत्वम् ॥ ३८८ ॥
<bold>अलोकाकाशः -</bold>लोकत्रयाद्बहिः यत्र केवलमाकाशद्रव्यं वर्तते
इत्यार्हताः । [धनताश्रयान्यः
<bold>अलौकिक:-</bold> विधिमन्तरा रागादिप्राप्तभिन्नः १ लोकावगतेष्टसा-
<bold>अल्पं-</bold>परिच्छिन्नम् १ यस्य वस्तुनः यावती इयत्ता उचिता ततो न्यूनं
<bold>अवकाशः-</bold> आवरणाभावः १अवस्थितियोग्यतासंपादकोऽवसरः
<bold>अवग्रहः -</bold> समस्तपदस्यावान्तरपदविच्छेदः ॥ ३९५ ॥
<bold>अवघातः -</bold> ताडनमात्रम् १ व्रीहिसंस्कारार्थव्यापाइति ग्रं०
 
-