This page has not been fully proofread.

२२ [अव]
 
● सर्वलक्षणसङ्ग्रहः *
दिवाऽभुजानस्य देवदत्तस्य रात्रिभोजनं विनानुपपद्यमान-
पीनत्वज्ञानात्तदुपपादकरात्रिभोजनकल्पनम् २ सम्पाद्यज्ञान-
प्रभवं सम्पादकज्ञानम् ३ अर्थस्य पदार्थविशेषस्य आपत्ति-
ज्ञानमिति तत्पुरुषसमासेनार्थापत्तिशब्दः प्रमापरः, अर्थस्या-
पत्तिर्यस्मादिति बहुव्रीहिणा प्रमाणपरः ॥ ३७७ ॥
अर्थापत्तिप्रमाणं- उपपादक (प्रमाकरणम् १ ) कल्पना हेतुभूतो-
अर्थार्थी- अपूर्वैश्वर्यकामः
 
[पपाद्यज्ञानं
 
-
 
अर्पणं - निवेशनम् १ स्वत्वत्यागानुकूलव्यापारो वा ॥ ३८२ ॥
अलङ्कारः- शब्दार्थयोः शोभाकारकः १ काव्यत्वाव्यापकत्वे सति
शब्दार्थगत सौन्दर्यातिरेक जनकरसाद्युपकारकशब्दार्थधर्मः ।
अलाभविजयः-अलाभेऽपि लाभवत्संतोष इति जैनाः ३८५
अलीकत्वम्- ज्ञानाविषयत्वम् १ सर्वदेशकालनिष्ठात्यन्ताभाव-
प्रतियोगित्वे सति सत्तादात्म्यशून्यत्वमिति ग्रं० २ तादृशप्र-
तियोगिता विशिष्टत्वे सत्यप्रतीयमानत्वम् ॥ ३८८ ॥
अलोकाकाशः -लोकत्रयाद्वहिः यत्र केवलमाकाशद्रव्यं वर्तते
इत्याईताः ।
[धनताश्रयान्यः
 
अलौकिक: विधिमन्तरा रागादिप्राप्तभिन्नः १ लोकावगतेष्टसा-
अल्पं-परिच्छिन्नम् १ यस्य वस्तुनः यावती इयत्ता उचिता ततो न्यूनं
अवकाशः आवरणाभावः १अवस्थितियोग्यतासंपादकोऽत्रसरः
अवग्रहः - समस्तपदस्यावान्तरपदविच्छेदः ॥ ३९५ ॥
अवघातः - ताडनमात्रम् १ व्रीहिसंस्कारार्थव्यावर इति मं०
 
-