This page has been fully proofread once and needs a second look.

<bold>अयथार्थानुभवः- </bold> दुष्टसामग्रीजन्योऽनुभवः १ बाधितार्थविष-
यकानुभवः, यथा शुक्ताविदं रजतमिति ज्ञानम् ॥ ३५८ ॥
<bold>अयुतसिद्धिः-</bold> असम्बद्धयोरविद्यमानत्वम् ॥ ३५९ ॥
<bold>अयोनिजशरीरं-</bold> शुकशोणितसन्निपातानपेक्षं शरीरम् <error>३६०</error><fix>॥६३०॥</fix>
<bold>अरणिः-</bold> घर्षणद्वाराग्निजनककाष्ठम् १ ऋच्छतीति २ ऋ अनिः
<bold>अरिः-</bold> स्वकृतापकारमनपेक्ष्य स्वभावकौर्येणापकर्ता ॥३६२॥
<bold>अर्थ:-</bold> ज्ञानविषयः १ एकैकेन्द्रियमात्रग्राह्यविशेषगुणः । २
अर्थ्यते प्रार्थते प्राणिभिरिति, यथा वित्तादिः ॥ ३६५ ॥
<bold>अर्थपुनरुक्तं -</bold> समानार्थकभिन्नानुपूर्वीकशब्दस्य निष्प्रयोजनं
पुनरभिधानम् , यथा घटः कलश इति ॥ ३६६ ॥
<bold>अर्थवादः -</bold> विध्य ( धोनप्रवृत्त्युत्तम्भकत्वम् १ )समभिव्याहृतवा-
क्यम् २ प्रकरणप्रतिपाद्यस्य प्रशंसनम्, यथा येनाश्रुतं श्रुतं
भवतीत्यद्वितीयवस्तुप्रशंसनम् ३ प्राशस्त्यनिन्दान्यतरपरं वाक्यं
<bold>अर्थाध्यासः-</bold> प्रमाणाजन्यज्ञानविषयत्वे सति पूर्वदृष्टसजा-
तीयाध्यासः, यथा शुक्तौ रजताभ्यासः । स्मर्यमाणगङ्गादावभि-
नवघटे चातिव्याप्तिनिरासाय प्रमाणेत्यादिपदद्वयम् <error>३७१</error><fix>॥३७१॥</fix>
<bold>अर्थाध्याहारः-</bold> आकाङ्क्षितार्थानुसन्धानम् ॥ ३७२ ॥
<bold>अर्थान्तरनिग्रहस्थानं-</bold> प्रकृतानुपयुक्तार्थकथनम् ॥ ३७३ ॥
<bold>अर्थापत्तिप्रमा-</bold> अन्यथानुपपन्नदर्शनादुपपादके बुद्धिः १
अनुपपद्यमानार्थज्ञानात्तदुपपादकीभूतार्थान्तरकल्पनम्, यथा