This page has been fully proofread once and needs a second look.

[अर्था] २१
 
* सर्वलक्षणसङ्ग्रहः *
<bold>अयथार्थानुभवः- </bold> दुष्टसामग्रीजन्योऽनुभवः १ बाधितार्थविष-

यकानुभवः, यथा शुक्ताविदं रजतमिति ज्ञानम् ॥ ३५८ ॥

<bold>
अयुतसिद्धिः-</bold> असम्बद्धयोरविद्यमानत्वम् ॥ ३५९ ॥
 

<bold>
अयोनिजशरीरं-</bold> शुकशोणितसन्निपातानपेक्षं शरीरम् ३६०

<bold>
अरणिः-
</bold> घर्षणद्वाराग्निजनककाष्ठम् १ ऋच्छतीति २ ऋ अनिः

<bold>
अरिः-</bold> स्वकृतापकारमनपेक्ष्य स्वभावकौर्येणापकर्ता ॥३६२॥

<bold>
अर्थ:-</bold> ज्ञानविषयः १ एकैकेन्द्रियमात्रग्राह्यविशेषगुणः । २

अर्थ्यते प्रार्थते प्राणिभिरिति, यथा वित्तादिः ॥ ३६५ ॥

<bold>
अर्थपुनरुक्तं -</bold> समानार्थकभिन्नानुपूर्वीकशब्दस्य निष्प्रयोजनं

पुनरभिधानम् , यथा घटः कलश इति ॥ ३६६ ॥

<bold>
अर्थवादः -</bold> विध्य ( धोनप्रवृत्त्युत्तम्भकत्वम् १ )समभिव्याहृतवा-

क्यम् २ प्रकरणप्रतिपाद्यस्य प्रशंसनम्, यथा येनाश्रुतं श्रुतं

भवतीत्यद्वितीयवस्तुप्रशंसनम् ३ प्राशस्त्यनिन्दान्यतरपरं वाक्यं

<bold>
अर्थाध्यासः-</bold> प्रमाणाजन्यज्ञानविषयत्वे सति पूर्वदृष्टसजा-

तीयाध्यासः, यथा शुक्तौ रजताभ्यासः । स्मर्यमाणगङ्गादावभि-

नवघटे चातिव्याप्तिनिरासाय प्रमाणेत्यादिपदद्वयम् ३७१

<bold>
अर्थाध्याहारः-</bold> आकाङ्क्षितार्थानुसन्धानम् ॥ ३७२ ॥

<bold>
अर्थान्तरनिग्रहस्थानं-</bold> प्रकृतानुपयुक्तार्थकथनम्
॥ ३७३ ॥
<bold>
अर्थापत्तिप्रमा-</bold> अन्यथानुपपन्नदर्शनादुपपादके
बुद्धिः १
अनुपपद्यमानार्थज्ञानात्तदुपपादकीभूतार्थान्तरकल्पनम्, यथा
 
॥ ३७३ ॥
बुद्धिः १
 
>